पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ विंशः सर्गः ।

  • ३२ गजाश्वरथपत्तिकर्मप्रकरणम् *

प्रयाणे पूर्वयायित्वं वनदुर्गप्रवेशनम् । अकृतानां च मार्गाणां तीर्थानां च प्रवर्तनम् ॥ १ ॥ तोयावतारसन्तारावेकाङ्गविजयस्तथा । अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः ॥ २ ॥ बिभीषिकाभिघातश्च प्राकारद्वारभञ्जनम् । कोशनीतिर्भयत्राणं हस्तिकर्म प्रचक्षते ॥ ३ ॥ चतुरहस्य सैन्यस्य निषेधो बलरक्षणम् । अभिन्नभेदनं भिन्नसन्धानं रथकर्म तेत् ॥ ४ ॥ अस्मिन् सर्गे पञ्च प्रकरणानि गजाश्वरथपत्तिकर्माणि, पत्त्यश्वरथगज- भूमयः, दानकल्पना, व्यूहविकल्पाः, प्रकाशयुद्धं चेति । तत्र चतुरङ्गं स्वकर्मभिः कूटयुद्धादौ व्याप्रियत इति तत्कर्माण्युच्यन्ते नवभिः श्लोकैः - प्रयाण इत्यादि । प्रयाणकाले परैर्मार्गे संरुद्धे संरोधभङ्गार्थं हस्तिनां पुरो यानम् । वनदुर्गे अश्वाद्यगम्ये प्रवेशनं हस्तिभिः सैन्यस्य । तीर्थानां जलावतरणानां प्रवर्तनं संक्षोभ्यकरणम् ॥ १ ॥ तोयावतारसन्ताराविति । जलदुर्गविजयार्थं हस्तिभिस्तोयावतरणं, नाव्यतोयानां च नदीनां सन्तरणम् । एकाङ्गविजयः सुकृतेन सुकल्पितेन केवलेन हस्तिना विजयः । अभिन्नानां परानीकानां पराक्रमातिशयात् । भिन्नसङ्ग्रहः भिन्नव्यूहानां छिद्रपूरणेन सन्धानम् ॥ २ ॥ विभीषिका भीतिजननं सन्नाहसम्भ्रमेणैव । अभिघातः परेषां व्यसनैः । कोशनीतिः प्रयाण कोशवहनम् । भयात् प्रत्युपस्थितात् त्राणम् ॥ ३ ॥Shardashah (सम्भाषणम्) १६:१८, २२ नवेम्बर् २०२२ (UTC) चतुरङ्गस्य बलस्य परकीयस्य निषेधो रथैः । बलस्यात्मीयस्य रक्षणम् ॥ ४ ॥ १. 'भेद्य' क. पाठः. २. 'च॥' क, पाठः. ३. 'विकलिते' ङ. पाठः. ४. 'नम्' ग. घ. इ. पाठः,