पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] एकत्रिंशं प्रकरणम् । सुनियतमुपहन्यात् कूटयुद्धेन शत्रून् न हि तिरयति धर्म छद्मना शत्रुघातः । अचकितमवसुप्तं पाण्डवानामनीकं निशि सुनिशितशस्त्रो द्रोणसूनुर्जघान ॥ ७१ ॥ (हृति कूटयुद्धविकल्पो नामैकत्रिंशं प्रकरणम् ) इति कामन्दकीय नीतिसारे २९३ सैन्यबलावलं सेनापतिप्रचारः प्रयाणव्यसनरक्षणं कूटयुद्धविकल्पो नाम ऊनविंशः सर्गः । ननु निर्दिष्टदेशकालः सङ्ग्रामो धर्मिष्ठः । कूटयुद्धस्याधर्मिष्ठत्वात् कथं शत्रुमनेन हन्यादित्याह -- सुनियतमित्यादि । शत्रुरपकारी, तस्य कूटेन व्यापादनं नाधर्माय । तथाचागमः "विषेण वा माधव ! मायया वा शस्त्रेण गोविन्द ! तथाग्निना वा । यैस्तैरुपायैररविन्द्रनाभ ! शत्रविधं वेदविदो वदन्ति ॥ " इति । पूर्वैराचरितश्चायं मार्ग इत्याह- अचकितमिति । विस्रब्धं सुप्तम् । द्रोण- सूनुरश्वत्थामा । स हि पितृवधामर्पितो विस्रब्धसुप्ते पाण्डवानीके सौप्तिकमर्करोदिति ॥ ७१ ॥ ( इति कूटयुद्धविकल्पो नामैकत्रिंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां सैन्यबलाबलं सेनापतिप्रचारः प्रयाणव्यसनरक्षणं कूटयुद्धविकल्पो नाम ऊनविंशः सर्गः । १, 'पुणमु' ख. ग. पाठः. २. 'क' ङ. पाठः