पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ऊनविंशः २९२ कामन्दकीय नीतिसारे नीहारतिमिराङ्गारश्वभ्राग्निवननिम्नगाः ।

वदन्ति सत्रमित्यादि सत्रं छद्म प्रकीर्तितम् ॥ ६९॥ + ( पुनरावर्तमानस्य निराशस्य तु जीविते । अनार्यो जायते वेग इति भग्नं न पीडयेत् ॥ अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये । समायव्ययता स्थानं कर्मसु ज्ञेयमात्मनः ॥ द्वावपि प्रस्तुनौ वध्यप्रभत्तौ व्यवसायवत् । ) साध्वप्रमत्तो व्यवसायवतीं येन प्रकारेण परं निहन्यात् । चरैः समावेदिततत्प्रचारः शङ्केत तेनैव ततोऽप्रमत्तः ॥ ७० ॥ कृतसम्मीलनत्वाद्धन्यात् । इत्येवमित्युपसंहरति । लघुत्थितो हन्याद् मा भूत् कालातिपत्तिरिति ॥ ६८ ॥ सत्रव्यपाश्रय इत्यादि सत्रमुक्तं, तस्य स्वरूपमाह - नीहारेत्यादि । श्वभ्राणि कन्दराः। सत्रमित्यादीत्यादिशब्दाद् धान्वनशैलविषमादयो द्रष्टव्याः । सनं छेद्म प्रकीर्तितम् आत्मच्छादनात् ॥ ६९ ॥ यथा विजिगीषुः कूटयुद्धप्रयोगान् परत्र प्रयुङ्क्ते, तथा परोऽप्यस्मिन्निति तत्प्रतिविधानार्थमाह- साध्वित्यादि । शोभनमप्रमत्तः । व्यवसायवर्ती कृतोत्साहः । चरैः समावेदितः शत्रुप्रचारो यस्मै सः । तेनैव प्रकारेण । ततः परस्माच्छङ्केत ॥ ७० ॥ १. 'दि' क. पाठः. २. 'सेयः' ख, ग. पाठः. ३. 'लितत्वा' क. ख. पाठः. 'त्त्वव्यपाश्रय इति सक. ख. पाठः ५. 'वर्ल्ड' ग. घ. पाठः. + धनूरेखाङ्गितानि क पुस्तके परं दृश्यन्ते. ४.