पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ५९६ सर्गः एकत्रिंशं प्रकरणम् । मृगयासम्प्रसक्तं वा हन्याच्छेनुमपाश्रयम् । अथवा गोग्रहाकृष्ट्या तल्लक्षं मार्गबन्धनात् ॥ ६४॥ अवस्कन्दभयाद् रात्रौ प्रजागरकृतश्रमम् । दिवामसुप्तं वा हन्यान्निद्राव्याकुलसैनिकम् ॥ ६५ ॥ अहस्सन्नाहतः श्रान्तमपराह्ने विनाशयेत् ।

निशि विस्रम्भप्तं वा तत सौप्तिकविधानवित् ॥ ६६ ॥ सपादकोशावरणैर्नागैः कुर्यात् तु सौप्तिकम् । कुर्यादुग्रजयोपेतैर्नरैर्वा खङ्गपाणिभिः ॥ ६७ ॥ प्रतिसूर्यमहावात हन्यात् सम्मीलितेक्षणम् । इत्येवं कूटयुद्धेन हन्याच्छन्त्रून् लघुत्थितः ॥ ६८ ॥ मृगयासंप्रसक्तमाविकप्रोत्साहितम् । गोग्रहाकृष्ट्या गोग्रहणेनान्यतः स-माकृष्य गोग्रहणकृतलक्ष्यं परं मार्गेषूपरुध्य हन्यात् ॥ ६४ ॥ अवस्कन्दभयादिति । रात्रौ सायमेवावस्त्कन्दं दास्यतीति भवात् प्रजागरकृतश्रमं ततो निद्राव्याकुलसैनिक दिवःसुप्तं हन्यात् ॥ ६५ ॥ अहस्सन्नाहत इति । अहनि व्याजकलहेन सन्नाहपरिश्रान्तम् अपराह्ने मुक्तसन्नाहं हन्यात् । सुप्ते भवं मर्दनं सौप्तिकं तद्विधानवित् । विस्रम्भसुप्तं वा तत् परबलं विनाशयेदिति सम्बन्धः ॥ ६६ ॥ 1 किं तत् सौप्तिकमित्याह -- सपादकोशावरणैरिति । पादकोशश्धर्ममयः कण्टकाद्याबाधक परिहारार्थम् । आवरण शस्त्रनिवारणार्थम् । नरैर्वा, यदि हस्तिनो न सन्ति ॥ ६७ ॥ पाठ:. प्रतिसूर्यमहावातं प्रतिकूलौ सूर्यमहावातौ यस्य परबलस्य तत् प्रतिघात- १. 'यु' ख. ग. पाठः. २. 'त्सत्त्वसमाश्रयः' ख. ग. पाठः. ३. 'ना' ख. ग. ५. 'कौ' क. पाठः. ६. ‘नृभिर्वा’ क. पाठः, ७, ‘तप्रति- ८. 'निहृन्यादिति कूटेन युद्धेनारी' ख. ग. पाठः. ४. 'ध' क. पाठः. स' ख, ग, पाठः,