पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ऊनविंशः २९० कामन्दकीय नीतिसारे प्रथमं योधयित्वा च दूष्यामित्राटवीबलैः ।

श्रान्तं सन्नं निराक्रन्दं हन्यादश्रान्तवाहनः ॥ ६० ॥ दूष्यामित्रबलैर्वापि भङ्गं दत्वा प्रयत्नवान् । जितमित्येव विश्वस्तं हन्यात् सत्रव्यपाश्रयः ॥ ६१ ॥ स्कन्धावारपुरग्रामसस्यसार्थव्रजादिषु । विलोभ्य च परानीकमप्रमत्तो विनाशयेत् ॥ ६२ ॥ फल्गुसैन्यप्रतिच्छन्नं कृत्वा वा सारवद् बलम् । मन्दयत्नं तद्विलोपे हन्यादुत्प्लुत्य सिंहवत् ॥ ६३ ॥ पुरो हन्यादिति सम्बन्धः । एवमेव तु पार्श्वयोरिति । वामदक्षिणयोरिति सम्बन्धः । देशे वामतो दक्षिणतो वा हन्यादित्यर्थः ॥ १९ ॥ 1 दूष्यमित्राटीवलैः परकीयकल्पैः । बलें बनेन हन्यात् । (पूर्वतः १) प्रथममिति । पूर्वै योधयित्वा पश्चाच्छ्रान्तं सन्नम् । निराक्रन्दं निराशं, क्षीणब- लत्वात् ॥ ६० ॥ दीष्यामित्रबलैर्वा भङ्गं दत्वा पलायनेनानयोजितं मयेति विश्वरतं परं भग्नानुसारिणम् । प्राक् सत्रँव्यपाश्रयः प्रयत्नवानप्रमत्तो हन्यात् ॥ ६१ ॥ स्कन्धावारादिषु प्रख्यापितरक्षाशैथिल्येषु विलोपयितुं विलोभ्योभयवेतनैः ततो विलोपेऽप्रमत्तः परानीकं हन्यात् ॥ ६२ ॥ फल्गुसैन्यप्रतिच्छन्नमिति । असारवलेन सारबलमवच्छाद्य तद्विलोपे फल्गुबलाभिघाते अवज्ञया शिथिलयत्नं (समीचीभूतं?) परं सारबलेन सिंहवदुत्प्लुत्य हन्यादिति ॥ ६३ ॥ १. 'सत्त्वव्य' इति मूलकोशेषु पाठः २. 'प्र' ख. ग. पाठः ३. 'नविलोपेन ह' इति मूल- कोशेष पाठः. ४. 'बलं वि (ल्वे ? श्वेन)' ङ.च. पाठः ५. परमिति' ग.घ.इ.च. पाठः. ६. 'राको- शं' ग. घ. पाठः, ७. 'त्रापाश्रितः प्र' ग, घ पाठः ८. 'न सिंहसा' ग. घ. पाठः,