पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकत्रिंशं प्रकरणम् । २८९ तेष्यवरकन्दकालेषु परं हन्यात् समाकुलम् । अभूमिष्टं हि भूमिप्रं तद्भूमौ चोपजापतः ॥ ५५ ॥ प्रकृतिप्रग्रहाकृष्टं पाशैर्वनचरादिभिः । हन्यात प्रवीरपुरुषैर्भङ्गदानापकर्षणैः ॥ ५६ ॥ पुरस्ताद दर्शनं दत्त्वा तल्लक्षकृतनिश्चयः । हन्यात् पश्चात् प्रवीरेण बलेनोत्पीड्य वेगिना ॥ ५७ ॥ पश्चाद् वा सङ्कुलीकृत्य हन्यात् सारेण पूर्वतः । आभ्यां पार्श्वविघातौ तु व्याख्यातौ कूटयोधने ॥ ५८ ॥ पुरस्ताद् विषमे देशे पश्चाद्ध्न्यात् तु वेगवान् । पुरः पश्चाच्च विषम एवमेव तु पार्श्वयोः ॥ ५९ ॥ कीदृशं तदित्याह - तेष्वित्यादि । अवस्कन्दकालेषु कन्दराशैलादिप्रयाणादिषु । अभूमिष्ठं स्वभूमिष्ठं परं हन्यादिति सम्बन्धः । स्वबलयोग्यायां वा भूमौ स्थितं परस्परप्रकृतिपपजापाज्जातावकाशो हन्यादित्यर्थः ॥ १५ ॥ आकृष्टं पाशैर्वनचरादिभिः भङ्गदानापकर्षणैरिति सम्बन्धः | आदिशब्दाद् दूष्यामित्रोपग्रहः । भङ्गदानेनापकर्षणं येषां तैः दूष्यामित्राटविकबलैः पाशभूतैः स्वभूमितोऽपकृष्टं परं विभूमिप्राप्तं प्रवीरपुरुषैर्हन्यात् ॥ ५६ ॥ पुरस्ताद् दर्शनं दत्त्वा येनकेनचिद् बलेन, तल्लक्षकृतनिश्चयः पौरस्त्यकृतावधानान् परसैनिकान् हन्यात् । पश्चाद् अदत्तपृष्टावधानत्वात् । प्रवीरेण हस्त्यश्वबलेन वेगवता ॥ १७ ॥ पश्चाद् वा सङ्कुलीकृत्य पृष्ठतो व्याकुलीकृत्य येनकेनचिद् बलेन । हन्यात् पूर्वतः पुरस्ताद्, दत्तपृष्ठावधानान् । आभ्यां पार्श्वविघाताविति । वामतो दक्षिणतो वा पार्श्वतः सङ्कुलीकृत्य दक्षिणतो वामतो वा हन्यात् ॥ ९८ ॥ पुरस्ताद् विषमे देशे परिवर्तनस्तम्भनावकाशाद्ययोग्ये । पश्चाच्च विषमे १. 'साध्वव' क. पाठः, २. 'हि' क. पाठः. वे' क. पाठः. ५. 'रश्च पश्चाद्वि' ख. ग. पाउः. संस्त' ङ. पाठः. ३. 'ले' क. पाठः. ४. 'नाप्लुत्य ६. यां भू' ग. घ. पाठः ७. 'न-