पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ऊनविंश: २८८ कामन्दकीयनीतिसारे प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसंस्थितम् । चोराग्निभयवित्रस्तं वृष्टिवातसमाकुलम् ॥ ५२ ॥ एवमादिषु जातेषु व्यसनेष्वैसमाकुलः । [ स्वसैन्यं साधु संरक्षेत् परसैन्यं च घातयेत् ॥ ५३ ॥ (इति प्रयाणव्यसनरक्षणं नाम त्रिंशं प्रकरणम् )

  • ३१ कूटयुद्धविकल्पप्रकरणम्

विशिष्टो देशकालाभ्यां भिन्नारिप्रकृतिर्बली । ४ कुर्यात् प्रकाशयुद्धं हि कूटयुद्धं विपर्यये ॥ ५४ ॥ अभूमिष्ठं स्वबलायोग्यायां भूमौ स्थितम् ।असंस्थितमनिविष्टम् ॥ १२ ॥ एवमादिष्विति । आदिशब्दादशेषबलव्यसनोपग्रहः । असमाकुलः सावधानः । स्वसैन्यं रक्षेत् परावस्कन्दात् ॥ ५३ ॥ (इति प्रयाणव्यसनरक्षणं नाम त्रिंशं प्रकरणम् ) उक्तव्यसनानां हि कूटयुद्धहेतुत्वात् तदनन्तरं कूटयुद्धविकल्पा उच्यन्तेऽष्टादशभिः श्लोकैः । विशिष्ट इत्यादि । चतुरङ्गेण हि बलेन व्यायामयुद्धं क्रियते । तच्च द्विविधं, मुख्यं तावत् प्रकाशयुद्धम्, अप्रकाशयुद्धं कूटमिति । तत्र यदा स्वबलानुर्कूलदेशकालः कृतपरप्रकृत्युपजापो बलेन चाधिकः शत्रोः, तदा प्रकाशयुद्धम् आभाषितं सङ्ग्रामं कुर्यात् । विपर्ययः विरुद्धदेशकाल: अभिन्नारिप्रकृतिर्बलहीनश्च कूटयुद्धं प्रच्छन्नयुद्धं कुर्यात् ॥ ५४ ॥ १. 'घो' क. पाठः. २. 'हतम्' क पाठः. ३. 'षु समाकुलम् ।' क. पाठः ४. 'तु' क. पाठ.. ५. 'अस्वबलयो' ङ. पाठः ६. 'त्वादन' ङ. पाठः. ७. 'तदन्यत् कूटयुद्धमि क. ख. पाठः, ८. 'रूपदे' ङ. पाठः, ९, 'तप्र' ग घ पाठः, १० 'पे विशिष्टो ब'ङ पाठः