पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] त्रिंशं प्रकरणम् । २८७ पश्चात् सेनापतिः सर्व पुरस्कृत्य कृती स्वयम् | यायात् सन्नद्धसैन्यैौघः खिन्नानाश्वासयञ्छनैः ॥ ४७ ॥ यायाद् व्यूहेन महता मकरेण पुरोभये । श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्रया ॥ ४८ ॥ पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञितम् । सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥ ४९ ॥ कन्दरे शैलगहने निम्नगावनसङ्कटे ! दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लेमम् ॥ ५० ॥ व्याधिदुर्भिक्षमैरणपीडितं दस्युभिर्युतम् । पङ्कपांसुजलेच्छन्नं व्यस्तं पुञ्जीकृतं पथि ॥ ५१ ॥ ४ पश्चात् स्वामिनो गच्छतः । सर्व सैन्यम् । खिन्नानां सैनिकानामाश्वा- सनकरणस्वभावः ॥ ४७ ॥ पुरोभय इति । पुरस्तात् परोऽमिहनिष्यतीति भयमुत्प्रेक्ष्य मकरव्यूहेन यायात् । स हि विस्तीर्णमुखत्वादशेषं बलं रक्षति । श्येनेनोद्धृतपक्षेण विस्तृतपक्षेण यदा तिर्यग्भागे भयमुत्प्रेक्षेत । सूच्या वा वीरवक्र१५:५०, २२ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्)या मुख- निवेशितशूरयोर्धया यद्येकायनमार्गे पुरोभयमाशङ्कयेत ॥ ४८ ॥ 9 7 पश्चाद्भये शकटं, तस्य पश्चाद्विस्तीर्णमुखत्वात् । पार्श्वयोरुभयोर्वज्रसंज्ञितं तदुभयतो विस्तीर्णमुखम् । सर्वतो भये सर्वतोभद्रं तस्य सर्वतोमुखत्वात् ॥ ४९ ॥ व्यसनरक्षणमधिकृत्याह -कन्दर इत्यादि । कन्दरादिष्ववतरणारोह- णोत्तरणादिव्यासक्तम् ॥ ५० ॥ स्कन्नं पङ्कादिगतम् । व्यस्तं विक्षिप्तम् । पुञ्जीकृतं पथि एकायने ॥ ५१ ॥ १. 'सन्निभम् क. पाठ:. क. पाठः, 'भिर्वृत' ख. पाठः. २. 'श्र' क. पाठ:. ३. 'मकरपी' क. पाठः. ४. 'विदु' ५. 'ला' क. पाठः. ६. 'सक' ख. ग. पाठः ७. 'क्ष्ये' ङ. पाठ:. ८. 'धायनतया' ग. घ. पाठः. $ 'छन्नम्' इत्यस्य स्थाने 'स्कन्नम् ' इति पाठो व्याख्याभूतः प्रतीयते,