पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ऊनविंश: ८६ कामन्दकीय नीतिसारे इत्यादिलक्षणोपेतं कुर्वीत ध्वजिनीपतिम् ।

ध्वजिनीं तु सदोद्युक्तः स गोपायेद् दिवानिशम् ॥ ४३ ॥ नद्यद्रिवनदुर्गेषु यत्रयत्र भयं भवेत् । सेनापतिस्तत्रतत्र गच्छेद् व्यूहीकृतैर्बलैः ॥ ४४ ॥ (इति सेनापतिप्रचारो नाम ऊनत्रिंशं प्रकरणम् )

  • ३० प्रयाणव्यसनरक्षणप्रकरणम् *

नायकः पुरतो यायात् प्रवीरपुरुषावृतः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥४५॥ पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वयो रथाः । रथानां पार्श्वयोर्नागा नागानां चाटवीबलम् ॥ ४६ ॥ ध्वजिनीं सेनामुक्तलक्षणाम् । गोपायेद् रक्षेत् तन्नियुक्तत्वात् ॥ ४३ ॥ नद्यद्रवनदुर्गेष्विति । दुर्गशब्दः प्रत्येकं योज्यः । भयं सामन्ताटविदिभ्यः । व्यूहीकृतैः सन्नद्धैः ॥ ४४ ॥ (इति सेनापतिप्रचारो नाम ऊनत्रिंशं प्रकरणम् ) व्यूहीकृतैर्यातव्यमित्युक्तं, तत् कथं न्युह्य यायाद्, गच्छंश्च केषु व्यसषु पराभियोगाद् रक्षेदिति प्रमाणव्यसनैरक्षणमुच्यते नवभिः श्लोकैः । तत्र याणमधिकृत्याह नायक इत्यादि । नायको बलाध्यक्षः । पुरतो यायाद् सन्, मार्गावसयोश्च सम्पादनार्थम् । कलत्रमन्तः पुरम् । स्वामी विजिगीषुः । ल्यु बलं विष्टचादिकम् ॥ ४९ ॥ --- पार्श्वयोरुभयोः स्वामिन इत्यर्थः । अटवीबलं तात्स्थ्यादाटविकम् ॥४६॥ 'यु' क. पाठः. २. 'तो ना' ख. ग. पाठः. ३. ‘नमु' ग, घ, ङ. पाठः. ४. 'वस- 12 थ) योश्चासम्बाधार्थ' क. ख. पाठः.