पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] ऊनत्रिंशं प्रकरणम् । क्षुत्पिपासाक्लेमत्रासशीतवातोष्णवृत्तिभिः । अनाहितभयक्लोन्ति तत्संविग्नाभयप्रदम् ॥ ३९ ॥ हन्तारं परसैन्यानां दुःसाधाहितनिश्चयम् । हैतानां च स्वसैन्यानां सम्यग्विष्टम्भनक्षमम् ॥ ४० ॥ अवस्कन्दाभिमन्तारं वेत्तारं सैन्यकर्मणाम् । परदूतप्रचारज्ञं महारम्भफलोपगम् ॥ ४१ ॥ शश्वत्संसिद्धकर्माणं सिद्धकर्मनिषेवितम् । पराभवेवनिर्विण्णं श्रीमद्राजार्थतत्परम् ॥ ४२ ॥ अनाहितभयक्लान्तिं क्षुदादिभिरनुत्पादितं भयं ग्लानिश्च । तत्क्लेश सहत्वात् कर्मण्यम् । तत्संविग्नाः क्षुदादिपीडिताः सैनिका:, तेषामाश्वासयितारम् ॥३९॥ हन्तारं, प्रयोगकौशलं दर्शयति, अन्यथा हि शूरमित्यनेनैववगतत्वात् । दुःसाधाहितनिश्चयं स्थिरप्रतिज्ञम् । विष्टम्भनक्षमं स्तम्भनसमर्थम् ॥ ४० ॥ अवस्कन्दाः परेणोपरुद्धाः, तेषाम् अनुबलाधानेन मन्तारम् । सैन्यकर्मणां (वेत्तारं ) हस्त्यश्वरथपत्तिकर्मविदम् । परदूतप्रचारज्ञं यथोक्तेन प्रकारद्वयेन । महारम्भफलोपगं महारम्भफलं साधयितुमुपगन्तारं नान्यत् ॥ ४१ ॥ शश्वत् संसिद्धकर्माणं यद्यदारभते कर्म, तत्तदस्य सर्वदा सिध्यतीत्यर्थः । सिद्धकर्मभिश्च निषेवितम् । पराभवेष्वनिर्विण्णं शत्रुकृतेष्वभग्नोत्साहम् । श्रीमद्राजार्थतत्परं प्रकृष्टे राजकार्य सावधानम् ॥ ४२ ॥ १. 'प्रकृष्टाध्वशी' क पाठः. २. 'ग्लानिं समुद्विग्ना' क. पाठः. ३. 'भग्नानां' क. पाठः, 'हि' ख. पाठः. ४. 'सोढुं वि' ख. ग. पाठः. पाठ:. पाठः, ५. 'णम्' क. पाठः. ७. 'साध्याहि' ग. घ. पाठः. ८. ६. 'वाग' क. ख. 'णावरु' ग. घ. पाठः, ९. 'च' क. ख.