पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ऊनविंश: २८४ कामन्दकीय नीतिसारे वर्मकर्मसमायोगे कुशलं कुशलानुगम् । सर्वयुद्धक्रियोपेतं शक्तं तत्परिकर्मणि ॥ ३५ ॥ स्वभावचित्तज्ञतया युक्तमश्वनृदन्तिनाम् । तन्नाम्नां चापि वेत्तारं तद्विधानोपपादकम् ॥ ३६ ॥ देशभाषास्वभावज्ञं लिपिज्ञं सुदृढस्मृतिम् । निशाप्रचारकुशलं शकुनज्ञाननिश्चितम् ॥ ३७ ॥ उदयास्तमयज्ञं च नक्षत्राणां ग्रहैः सह । दिग्देशमोर्गविज्ञानसम्पन्नं तज्ज्ञसेवितम् ॥ ३८ ॥

वर्मकर्म सन्नहनकर्म, तत्समायोगे युद्धोपाये कुशलम् । तत्कुशलैश्वानु- गतम् । सर्वयुद्धक्रियोपेतं सर्वैरङ्गैरायुधैश्च योद्धुमभिज्ञम् । शक्तं युद्धपरिकर्मणि व्यूहरचनादौ || ३५ ॥ स्वभावचित्तज्ञतया युक्तं तदनुरूपप्रतिपत्त्यर्थम् । तत्राश्वादीनां सहजो धर्मः स्वभावः, आकस्मिकश्चाभिप्रायश्चित्तम् । तन्नाम्नां वेत्तारं यथाकार्य व्यवहारार्थम् । विधानं पोषणविधिः || ३६ || देशभाषास्वभावज्ञमिति । तत्र देशभाषाज्ञानं व्यवहारार्थम् । देशस्वभावज्ञानं च तद्देश्योपचारप्रतिपत्त्यर्थम् । लिपिज्ञं पत्रसम्प्रेषणमन्त्रणाद्यर्थम् । सुदृढस्मृति, स हि सम्प्रधारितं कार्यं न हापयति । निशाप्रचारः सौप्तिकादि- व्यापारः । शकुनज्ञानं भविष्यच्छुभाशुभपरिज्ञानफलम् ॥ ३७ ॥ उदयास्तमयज्ञं चेति । ग्रहनक्षत्राणामुदयास्तमयौ शुभाशुभसूचकौ जानाति । दिग्देशमार्गविज्ञानसम्पन्नमिति । रात्रौ वनदुर्गादिषु दिङ्मूढं सैन्यं बोधयति । एवं देशमार्गयोश्च विज्ञानाद् दृष्टदेशमार्गम् । तज्ज्ञैर्दिगाद्यभिज्ञैः सेवितम् ॥ ३८ ॥ १. 'कुशलज्ञा' ग. पाठः, 'संज्ञानगतिनि' क. पाठः, 'कुलज्ञानविनि' ख. पाठः २. 'कालवि' क. पाठः. ३. 'म् । कु' ग. घ. पाठः. ४. 'म् प्रतुध्वा पूर्वादिभिः' ग. घ. पाठः.