पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २८३

सर्गः ] ऊनत्रिंशं प्रकरणम् । अरोगं व्यायतं शूरं त्यागिनं कालवेदिनम् । कल्याणाकृतिसम्पन्नं सत्सम्भाव्यपराक्रमम् ॥ ३१ ॥ गजाश्वरथचर्यासु शिक्षितं सुजितश्रमम् । खड्युद्धे नियुद्धे च शीघ्रचङ्कमणक्षमम् ॥ ३२ ॥ युद्धभूमिविभागज्ञं सिंहवद् दृढविक्रमम् । अदीर्घसूत्रं निस्तन्द्रममर्षणमनुद्धतम् ॥ ३३ ॥ हस्त्यश्वरथशस्त्राणां सम्यग् लक्षणवेदिनम् । नरान्तरविवेकज्ञं कृतज्ञननुकम्पकम् ॥ ३४ ॥ अरोगं कर्मण्यम् । व्यायतं महाकायम् । स हि दृष्टमात्र एवाभिभवति । शूरमित्युत्साहगुणः । त्यागिनं सर्वाभिगम्यम् । कालवेदिनं स हि कार्य न हापयति। कल्याणाक्कृतिसम्पन्नं दर्शनीयत्वाल्लोकप्रियम् । सत्सम्भाव्यपराक्रमं प्रकृष्टविक्र- मैकदर्शनादन्योऽप्यसाधारणः सम्भाव्यते यस्य ॥ ३१ ॥ चर्या स्त्यादिभिर्गमनम् । तत्र शिक्षितं कृताभ्यासम् । सुजितश्रमं कर्मस्वपरिभग्नम् | नियुद्धं मलयुद्धम् । शीघ्रचङ्कमणक्षमं विद्युद्वल्लघु परिक्रमणयोग्यम् ॥३२॥ युद्धभूमयो हस्त्यादीनाम् । ताः स्वयमेव वक्ष्यति । दृढविक्रममिति । शौर्यात् सिद्धेऽपि पराक्रमे कस्यचिदस्थिरत्वादिति विक्रमो विशेष्यते । अदीर्घसूत्रं निस्तन्द्रं क्षिप्रकारिणमनलसं च । अमर्षेणं परिभवासहिष्णुम् । एते त्रय उत्साह- गुणाः । अनुद्धतवषधारिणं सतामभिगम्यम् ॥ ३३ ॥ लक्षणवेदिनं शुभाशुभानां हस्त्यादीनां प्राप्तिपरिहारार्थम् । नरान्तरविवेकज्ञं सत्यशौच शौर्यप्रज्ञादिभिः । कृतज्ञमनुकम्पकमिति । कृतज्ञत्वान्मुख्यपुरुषाणामभिगम्यम् ॥ ३४ ॥ १. 'मत्युत्साहगुणम्।' ग. घ. पाठः पाठ:. ४. 'हयादि' क. ख. पाठः. २. 'ल' क. ख. पाठ:. ३. 'कस्य प्रि' ग. घ. ५. 'र्षि' क, ख, पाठः,