पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ऊनविंशः २८२ कामन्दकीय नीतिसारे सत्य त्वक्षमास्थैर्य माधुर्यार्यगुणान्वितम् । प्रभावोत्साहसम्पन्नमाजीव्यमनुजीविनम् ॥ २८ ॥ मित्रवन्तमुदाराढ्यं बहुस्वजनबान्धवम् । व्यवहारिणमक्षुद्रं पौरप्रकृतिसम्मतम् ॥ २९ ॥ नित्याकारणवैराणामकर्तारमनाविलम् । शुभानुबन्धिकर्माणमल्पामित्रं बहुश्रुतम् ॥ ३० ॥

" क्षमा आक्रोशादितितिक्षा कचित् कार्यकालापेक्षया, स्थैर्य कर्मसु माधुर्य प्रियवादिता । सत्यादय एवार्यगुणाः । यत्तु “कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता । *अद्रोह” (स.१८. श्लो. ४९) इति प्रागुक्तास्तेषामत्रैवान्तर्भूतत्वान्न तद्रहणम् । प्रभावोत्साहसम्पन्नमिति । शौर्यद्युत्साहगुणयुक्तोऽपि कश्चिदप्रतापः, प्रतापवत्त्वे सत्यप्यकृतोत्साहश्चाभिभूयते । उभयगुणस्तु सदैवाप्रवृप्यो भवति । अतश्च सहनिर्देशः । तयोरप्युत्साहस्यैव प्रधानत्वम्, इतरस्य तज्जन्यत्वात् । एवञ्च मत्वा तद्गुणानत्रैव निर्देक्ष्यति | आजीव्यं जीवनादिदानेन ॥ २८ ॥ मित्रवन्तं बहुमित्रत्वात् परस्यानुच्छेद्यम् । तत्र बहुस्वजनबान्धवं बहुस्व- जनबान्धवत्वाद् दत्तबलम् । तत्र बाह्येन सम्बद्धः स्वजनः । आभ्यन्तरेण बान्धवः । उदाराढ्यं महत्त्वादेवाढ्यम् । व्यवहारिणम् ऋण दानादिव्यवहारशीलं धर्मस्थबन्धुम् । अक्षुद्रम् अविग्रहशीलं सत्सङ्ग्रहशीलं च । पौरप्रकृतिसम्मतम् उपलक्षणमेतद् जनपदप्रकृतेश्च सम्मतम् अनुद्वेजनात् ॥ २९ ॥ . नित्यवैरं यन्निष्फलमानुबन्धिकम्, अकारणवैरं निर्हेतुकम् | अनाविलत्वम् अपैशुन्यम् । त्रितयमपि प्रकृतीरनुरञ्जयति । शुभानुबन्धिकर्माणमिति । कल्या- णोदयं हि कर्मारभमाणः स्वपरेषां पूज्यः । अल्पामित्रम् अनुच्छेद्यम् । बहुश्रुतं बह्वा- गमम् । स हि कृच्छ्रेषु नावसीदति ॥ ३० ॥ १. 'नः।' ख. ग. पाठः २. 'द् आत्मबन्धः । त' गः घ. पाठः, ३. 'ण' कोशेषु पाठः. * 'अलोभ' इत्येव तत्र दृश्यते.