पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] ऊनत्रिंशं प्रकरणम् । योगमस्य विजानीयात् सर्वं यन्त्रादिना नृपः । कृताकृतं प्रचारं च साधु सेनापतेस्तथा ॥ २६ ॥ ( इति सैन्यवावलमष्टाविंशं प्रकरणम् )

  • २९ सेनापतिप्रचारप्रकरणम् *

कुलोद्गतं जानपदं मन्त्रज्ञं मन्त्रिसम्मतम् । दण्डनीतेः प्रयोक्तारमध्येतारं च तत्त्वतः ॥ २७ ॥ २८१ बलस्य प्रतिव्यूहनयोगः सर्वो यन्त्रादिना ज्ञेय इत्याह - योगमस्येति । तथाचोक्तं *यन्त्रहस्तिशकटगर्भ कुन्तप्रासहाटकवेणुशरशल्यवद् हस्तिबलस्य प्रतिबलं तदेव पाषाणलगुडावरणशल्याङ्कुश कचग्रहणीप्रायं रथबलस्य । तदेवाश्वानां प्रतिबल, वर्मिणो हस्तिनोऽश्वा वा । कवचिनो रथाश्वावराणिनः पत्तयश्चतुरङ्गस्य प्रतिबलम् " (कौटि. अर्थ. ९. २. १३७ ) इति । कृताकृतं किमस्मिन् साङ्ग्रामिकमुपकरणं सम्पन्नं न वेति सम्यग् विजानीयात् । प्रचारं च सेनापतेः येन विज्ञातेन सैनापत्ये नियोजयेत् ॥ २६ ॥ (इति सैन्यबलाबलमष्टाविंशं प्रकरणम् ) सैन्यस्य सेनापत्यायत्तत्वात् तत्प्रचार उच्यतेऽष्टादशभिः श्लोकैः- • कुलोद्गतमित्यादि । एवंलक्षणोपेतं कुर्वीत ध्वजिनीपतिमिति वक्ष्यमाणेन सम्बन्धः । अत्र लक्षणद्वारेणैतत्प्रचारो विज्ञेयः । कुलोद्वतो न व्यभिचरति । जानपदस्तत्रत्यत्वाद् विश्वास्यः । मन्त्रज्ञो निर्णयकौशलात् कृच्छ्रेषु प्रसाधनाहः । मन्त्रिसम्मतः मन्त्रिभिः सह सम्भूय कार्यानुष्ठानसमर्थः । प्रयोक्ता तत्त्वतो दण्ड्येषु, तस्य स्वामिप्रकृतित्वात् । तथाहि "राजा युवराजः सेनापतिश्च स्वामिप्रकृतयः” । अध्येता वक्ता ॥ २७ ॥ १. 'वयत्नादि' क. पाठः. २. 'तप्र' क. पाठः ३. 'दा' क. पाठः ४. 'त्तमम्' ख. ग. पाठः. ५. 'णयुक्तं कु' ग. घ. पाठः ६ 'न्त्रनयज्ञः' ग घ पाठः ७. 'च्छन्ना' ग. घ. पाठः.

  • 'हस्तियन्त्रशकटगर्भकुन्तप्रासखर्वटकवेणुशल्यवद्धस्तिबलस्य प्रतिबलम् । तदेव पाषाणलगुडा- वरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रतिबलम् । तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोऽश्वा व वर्मिणः । कवचिनो रथा आवरणिन: पत्तयश्चतुरङ्गबलस्य' इति मुद्रित कौटिलीयार्थशास्त्रपाठः,