पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ऊनविंशः

२८० कामन्दकीय नीतिसारे अत्यूर्जितं कोपभयादभ्याशे तु रिपोर्बलम् । वासयेत् कर्शयेच्चैव दुर्गकण्टकमर्दनैः ॥ २२ ॥ नित्यमाटविकं सैन्यं दुर्गकण्टकशोधने । परदेशप्रवेशे च पुरस्कुर्वीत पण्डितः ॥ २३ ॥ एतन्मौलादिषड्भेदं चतुरङ्गं बलं विदुः । षडङ्गं मन्त्रकोशाभ्यां पदात्यश्वरथद्विपैः ॥ २४ ॥ इति षड्विधमेतद्धि यथायोगं बलं बली । सुनिश्छिद्रं प्रतिव्यूह्य यायात् परबलं बली ॥ २५ ॥ रवधापेक्षीति । श्वसूकरयोरिवारिबलयोः कलहे चण्डालस्येव मे योधकस्यान्यतरविपत्तौ सिद्धिरिति नयम् अन्योन्ययोधनाख्यं प्रयुञ्जीत ॥ २१ ॥ कोपभयादिति । अभ्युच्छ्रितं हि शत्रुवलं बाह्यं कोपं जनयति । तस्मात् तद्भयान्नित्यमासन्नं वासयेत् । तत्राभ्यन्तरको शङ्का यदि स्याद् दुर्गकण्टकमर्द- नैरिति । तत्र पथि दुर्गाणि यात्रोपघातकांश्च कण्टकान् मृहत् क्षीयते ॥ २२ ॥ दुर्गे मर्दनीये परदेशप्रवेशे चेति । यदि मार्गदेशिकं परभूमियोग्यं च स्यात् ॥ २३ ॥ प्रतिबलतो बलाबलमभिधित्सुराह - एतदित्यादि । चतुरङ्गबलं विदुः पदात्यश्वरथद्विपैः । षडङ्गं केचिन्मन्त्रकोशाभ्यां तयोरपि प्रथमं युध्यमानत्वात् ॥ यथायोगमिति । एवंबलः परस्तस्यैतत् प्रतिबलमिति यथायोगं प्रतिव्यूह्य । सुनिश्छिद्रं बलं व्यसनाभावात् ॥ २५ ॥ १. 'बलाद' क. पाठः. २. 'श्चितं प्रक. पाठः. ३. 'प्रति' क. पाठः, ४. 'चि' क. ख. पाठ.. ५. 'पा' ग. घ. पाठ्ः. ६. 'ग' ग. घ. पाठ:.