पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः अष्टाविंशं प्रकरणम् । शान्तोपजापविश्वस्तमस्मत्सैन्यं परस्य वा । २७९ अल्पः प्रसारो हन्तव्य इत्युपेयाद् भृतैर्बलैः ॥ १७ ॥ स्फीतं श्रेणिवलं शक्यमाधातुं यानवस्तुनोः । ह्रस्वौ प्रवासव्यायामाविति श्रेण्या समुत्पतेत् ॥ १८ ॥ प्रभूतं हि सुहृत्सैन्यं शक्यमाधातुमात्मनि । अल्पप्रवासो मन्त्राच्च भूयो व्यायामयोधनम् ॥ १९॥ मित्रसाधारणे कार्ये मित्रायत्ते फलोदये । अनुग्राह्ये च पीड्ये च मित्रेणैव सह व्रजेत् ॥ २० ॥ प्रभूतेनारिसैन्येन योधयेन्महतो रिपून् । श्वसूकरवधापेक्षी नयं चण्डालवन्नयेत् ॥ २१ ॥ शान्तोपजापविश्वस्तमिति शान्तोपजापं विश्वस्तं वास्मत्सैन्यम् । तत्र किं मौलेन | परस्य बाष्प इति सम्बन्धः । प्रसारश्चेष्टा ॥ १७ ॥ स्फीतं प्रभूतं श्रेणिवलं यानवस्तुनोः यात्रायां च स्थानीये च बहुत्वाच्छक्यमाधातुम् | प्रवासो ह्रस्वः कार्यलाघवादासन्नदेशत्वाद् वा, व्यायामोऽपि योद्धुमरूपः, प्रायो मन्त्रेण योद्धव्यम् इति ॥ १८ ॥ शक्यमाधातुमात्मनि यानवस्तुनीत्येव अल्पः प्रवासः पूर्ववत् । मन्त्राच्च भूयो व्यायामयोधनं मन्त्रयुद्धाद् भूयो व्यायामयुद्धम् ॥ १९ ॥ मित्रसाधारण इति । यथा शत्रोरुच्छेदनं कर्शनं वा विजिगीषोः कार्ये, तथा मित्रस्यापि । मित्रायत्ते मित्रसाध्ये कर्शनादौ । अनुग्राह्ये यातव्यसिद्धौ तदर्धा- शदानेन । पीडये समुपचितत्वात् । तेन सह व्रजेत् ॥ २० ॥ 1 असुहृत्सैन्येन प्रभूतेनेति । यदि प्रभूतं शत्रुबलं तदानेन योधयेत् । श्वसूक- १. 'स्तं सैन्यमस्तीति वा रिपोः क. पाठः. २. 'चारो गन्त' ख. ग. पाठः, ३. 'ति याया' खं. ग. पाठः ४. 'नि' क, पाट: ५. 'सम्यगाधा' क. पाठः ६. 'ल्पायासोपपन्नं च मन्त्रेणेति सुहद्वलैः' ख. ग. पाठः, ७. 'ज्येत स' ग. घ. पाठ..