पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२७८ कामन्दकीय नीतिसारे "ऊनत्रिंशः एषु वस्तुषु मेधावी भृतादीनि विवर्जयेत् । दीर्घाध्वकालखिन्नेषु तेषु भेदभयं भवेत् ॥ १३ ॥ बहुत्वादेव सैन्यानां दीर्घकालाच्च खेदतः । नित्यप्रवासयानाभ्यां भेदोऽवश्यं हि जायते ॥ १४॥ प्रभूतं मे भृतबलं मौलमल्पमसारवत् । अल्पं विरक्तं वा मौलं प्रायोऽल्पसारवत् ॥ १५ ॥ प्रायो मन्त्रेण योद्धव्यमल्पायासेन चैव हि । अल्पैः कालस्तु देशो वाप्रभूतौ च क्षयव्ययौ ॥ १६॥ यसहत्वात् तेषाम् । तत्सहत्वे कारणमाह-- दीर्घकालत्वादिति । चिरन्तनत्वात् ॥ १२ ॥ भृतादीनि विवर्जयेत्, कस्मादित्याह - दीर्घाध्वकालखिन्नेष्विति । भेदभयं भवेत् परस्मात् ॥ १३ ॥ तदेव स्फुटयन्नाह - बहुत्वादित्यादि । अन्यसैन्यका लिकोपादानात् तेषां भृतादीनां बहुत्वाद भेदोऽवश्यंभावी । नित्यप्रवासो यातव्यं प्रति भूयोभूयो गमनम् । थानं शत्रुसम्बन्धि ॥ १४ ॥ मौलमल्पं तच्च मूलरक्षणेऽपर्याप्तम्, असारवत् फल्गुप्रायमिति भृतबलमाद- ध्यात् । अरेरल्पं विरक्तं वा । प्रभूतमपि प्रायोऽल्पसारबन् असारबहुलम् । तत्र किं मौलेन ॥ १५ ॥ मन्त्रेण योगगूढोपजापादिना । अल्पायासेन व्यायामेन । अल्पो देशो यातव्यः कालो वाल्पः शोप्य वसितव्यः । अप्रभृतौ स्वल्पौ । पूर्वस्मिन् पादेऽकारः प्रश्लिष्टो द्रष्टव्यः ॥ १६॥ पाट:. १. 'र्घकालाध्वखि' ख. ग. पाठः, २. 'द्रिपुसै' ख. ग. पाठः. ३. 'चेद् भू' ख. ग. ४. 'वेति हि' क. पाठः. ५. 'ल्पोद्देशस्तु कालो वा क. पाठः.