पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ ऊनविंशः सर्गः ।

  • २८ सैन्यबलाबलप्रकरणम् *

सामादीनामुपायानां त्रयाणां विफले नये । विनयेन्नयसम्पन्नो दण्डं दण्ड्येषु दण्डवित् ॥ १ ॥ देवानभ्यर्च्य विप्रांश्च प्रशैस्तग्रहतारकाः । षड्विधं तु बलं व्यूह्य द्विषतोऽभिमुखं व्रजेत् ॥ २ ॥ मौलं भृतं श्रेणि सुहृद्विषदाटविकं बलम् । पूर्वपूर्व गरीयस्तु बलानां व्यसनं तथा ॥ ३ ॥ सत्कारादनुरागाच्च सहसङ्कथनासनात् । नित्यं तद्भावभावित्वान्मौलं भृतबलाद् गुरु ॥ ४ ॥ चतुरङ्गबलं मुक्त्वा मन्त्रेण कोशेन च जयेदरीन् । तदसिद्धौ च दण्डं निक्षिपेदित्याह -- सामादीनामित्यादि । विफले नये । प्रयोगो नयः । दण्डं दण्ड्येष्विति । तथाहि सामाद्यसाध्यत्वाद् दण्डार्हास्त इति ॥ १ ॥ अत्र च चत्वारि प्रकरणानि सैन्यबलावलं, सेनापतिप्रचारः, प्रयागे व्यसनरक्षणं, कूटयुद्धविकल्पाश्चेति । तत्र सैन्याधीनत्वाच्छ वलवधस्य सैन्यबला-बलमुच्यते । बलाबलं चोपादानात् कालतश्च । तत्र सन्नाहतो नवभिः श्लोकैराह - देवानित्यादि । इष्टान् साङ्ग्रामिकांश्च देवानभ्यर्च्य विप्रांश्च दत्ताशिषो जयार्थम् । ग्रहा आदित्यादयः । तारका नक्षत्राणि । बलं व्यूह्य पूर्वंपूर्वं सन्ना, तथाविधस्य बलीयस्त्वात् ॥ २ ॥ मौलमित्यादि । व्यसनं तथेति । मौलानां गरीयस्त्वात् तद्व्यसनमप्यमा- 1 नितविमानितादि गरीयः ॥ ३ ॥ सत्कारात् सम्मानात् । अनुरागाद् विजिगीषौ । विविक्ते विजिगीषुणा Shardashah (सम्भाषणम्) ११:२६, २२ नवेम्बर् २०२२ (UTC)१. 'यमुद्युक्तो द’ क. पाठ. २. 'सन्नग्र' क. पाठ: ३. 'हि मुखं नयेत्' क ४. 'प्यवमा' क.. ख. पाठः.