पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२७६ कामन्दकीय नीतिसारे [ऊनविंश: सन्निकृष्टतया नित्यं क्षिप्रोत्थानतयापि च । वृत्तेश्व स्वाम्यधीनत्वाद् भृतं श्रेणिबलाद् गुरु ॥ ५॥ तुल्यसङ्घर्षणामर्षात् सुखलाभात् तथैव च । बलाज्जानपदत्वाच्च मैत्राच्छ्रेणिबलं गुरु ॥ ६ ॥ असंख्य देशकालत्वादेकार्थोपगमात् तथा । बलान्मेदनयोगाच्च शत्रोर्मित्रबलं गुरु ॥ ७ ॥ सह कार्यसङ्कथनात् सहासनाच्च सगन्धानाम् । नित्यग्रहणं प्रतिपदं योज्यम् । तद्भावभावित्वाच्च विजिगीषुणा सहैकार्थानर्थसम्बन्धाद् । एते धर्मा भूतबलेन सन्ति ॥ ४ ॥ सन्निकृष्टतया विजिगीषोरासन्नचारितया भृतबलम् | श्रेणिबलं तु व्यवहितचारि । क्षिप्रोत्थानं स्वाम्यादेशमात्रापेक्षित्वाद्, नेतरत् परस्परापेक्षित्वात् । वृत्तिः स्वाम्यधीना, विजिगीषुणा तस्य भ्रियमाणत्वाद्, नेतरस्य, आत्मघारित्वात् ॥ ५ ॥ तुल्यसङ्घर्षणामर्षादिति । स्वामिनास्य शत्रुषु तुल्यौ स्पर्धामर्षौ, तुल्यः सुखलाभः । बलाद् मैत्रादिति सम्बन्धः । जानपदत्वाद् विजिगीषुदेशे जातत्वात् । विपरीतं मित्रबलम् || ६ | असङ्ख्यदेशकालत्वादिति । एतावन्तं देशं यातव्यम् एतावन्तं च कालं स्थातव्यमिति परिमितदेशकालं शत्रुबलं, नैवं मित्रबलं, प्रबन्धस्रवत्वात् । एकार्थोपगमाद् विजिगीषुणा सहैककार्यप्रवर्तनात् । विपरीतमन्यत् । बलाच्छत्रोरिति सम्बन्धः । “बलान्मेदने" ति वा पाठः । मेदनं स्नेहः ॥ ७ ॥ १. 'सङ्ख्यातदे' मूलकोशेषु पाठः. २. 'सस्नेहादभियो' ख. पाठः. + 'बलात् स्नेहने 'ति तु स्थितपाठः स्यात्.