पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[अष्टादशः सर्गः ] -२७४. कामन्दकीय नीतिसारे इति ह्युपायान् निपुणं नयज्ञो विनिक्षिपेच्छबले निजे च । निरभ्युपायो नियतं प्रपातं विचेष्टमानोऽन्ध इवाभ्युपैति ॥ ६५ ॥ अवश्यमायान्ति वशं विपश्चिता- मुपायसन्दंशबलेन सम्पदः । भवत्युदारं विधिवत् प्रयोजिते फलं हि राज्ञां कचिदर्थसिद्धये ॥ ६६ ॥ ( इत्युपायविकल्पो नाम सप्तविंशं प्रकरणम् ) इति कामन्दकीय नीतिसारे उपायविकल्पो नामाष्टादशः सर्गः । प्रकरणार्थमुपसंहरति लोकद्वयेन - नयज्ञः उपायप्रयोगज्ञः । निजे आत्माये बले । प्रपातं विनाशम् ॥ ६५ ॥ उपाय एव सन्देशः तेनाकृप्यमाणत्वात्, तद्वलेन तत्सामर्थ्येन । उदारं महत् फलमिति सम्बन्धः । विधिवत् प्रयोजित उपाये क्वचिदर्थसिद्धय इति सम्बन्धः ॥ ६६ ॥ (इत्युपायविकल्पो नाम सप्तविंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायामुपायविकल्पो नाम अष्टादशः सर्गः ।