पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तविंशं प्रकरणम् । छिन्नपाटितभिन्नानां संस्रुतानां प्रदर्शनम् । इतीन्द्रजालं द्विषतां भीत्यर्थमुपकल्पयेत् ॥ ६१ ॥ २७३ इत्युपायाः समाख्याता नाना नानार्थसाधकाः । साम तेषु हि कालज्ञो यथाकालं प्रयोजयेत् ॥ ६२ ॥ सामभेदौ तु कर्तव्यौ दानमानपुरस्सरौ । दानेन हि समायुक्तावेतावप्यर्थसिद्धये ॥ ६३ ॥ दानरिक्तेन सर्वत्र साम्ना कृत्यं तृणेन वा । निर्दानं साम नायाति कलत्रेष्वपि संस्थितिम् ॥ ६४ ॥ संस्रुतानां क्षरद्रुधिराणाम् । एते त्रय उपायाः सामादिचतुष्टय एवान्तर्भूताः । तत्र माया दण्डेऽन्तर्भूता । तस्य हि प्रकाशोपांशुत्वभेदेन द्वैविध्यात् । उपेक्षापि दण्ड एव, यस्माद् येषूपांशु प्रशस्यते तत्रोपेक्षा । तत्र च दण्डं स्वयं प्रवर्तयतोऽपरेण प्रवर्तनात् । इन्द्रजालमपि संहतबलस्य शत्रोर्भी - त्यर्थं कल्पते । तच्च शङ्काजननाद् भेदेऽन्तर्भूतम् ॥ ६१ ॥ । नाना भिन्नस्वरूपाः । नानार्थसाधका इति । ततोऽलसादीनां साधक साम, लुब्धस्य दानं, संहतबलस्य भेद:, दुष्टस्य दण्ड इति । एतेषु च सामदानयोरधिको व्यापार इत्याह -- सामेत्यादि । यथाकालमिति दानवाकाले साम प्रयोजयेद्, दानमपि सामकाले भेदकाले च ॥ ६२ ॥ यदाह -- दानमानपुरस्सराविति ॥ ६३ ॥ कृत्यं प्रयोजनम् । तृणेन वा वाशब्दश्चार्थे | इवार्थे वा । तत्साध्यं तृणेनेव करणीयं, दानरिक्तत्व साम्नो लघुत्वात् ॥ ६४ ॥ १. 'नामसृजां चापि द' ख. ग. पाठः 'नां संहतानां प्र' क. पाठः २. 'दर्शयेत्' ख, पाठ: ३. 'हि' क. पाठः. ४. 'साधुदानपु' क, घ. पाठः. ५. 'त्र' ग. घ. पाठ: