पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२७० कामन्दकीय नीतिसारे [अष्टादशः पैौरान् जानपदांचैव दण्डमुख्यांश्च दण्डवित् । साधयेद् दानभेदाभ्यां यथायोगेन चापरान् ॥ ५१ ॥

  • अवरुद्धांस्तत्कुलीनान् सामन्तांश्च विचक्षणः ।

साधयेद् भेददण्डाभ्यां यथायोगेन चापरान् ॥ ५२ ॥ देवताप्रतिमास्तम्भसुषिरान्तर्गता नराः । पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः ॥ ५३ ॥ पौराः दुर्गनिवासिनः । दण्डमुख्याः सेनानायकादयः । तान् साधयेद् दानभेदभ्याम्, अन्यथा हि ते लोभात् परोपजातं लिन्सन्ते । संहताश्चावश्या भवन्ति । दण्डमुख्याश्च दण्डमुपहन्युरिति दण्डविद्वहणम् ॥ ५१ ॥ अवरुद्ध निर्वासिताः । तत्कुलीनाः पुत्रभ्रातृव्यतिरेकेग । सामन्ता अबलवन्तो राजानः । तान् साधयेद् भेददण्डाभ्याम्, अन्यथा हि ते संहता दण्डेन चानुपतप्ताः पुनरपकुर्वन्ति । एते द्वियोगास्रय उक्ताः । यथायोगेन चापरानिति । यो यस्य योगः असौ यथायोगः तेनान्यान् साधयेत् | असं संहतवलं सामभेदाभ्याम् । लुब्धं दुष्टं दानदण्डाभ्याम् अलसं दुष्टं सामदण्डाभ्याम् इत्यपरे द्वियोगादयः पूर्वैश्च त्रिभिः षड भवन्ति । अलसं लुब्धं संहतबलं सामवदानभेदैः । लुब्धं संहतबलं दुष्टं दानभेददण्डैः । संहतवलं दुष्टभेददण्डसामभिः । दुष्टमलसं लुब्धं दण्डसामदानैरिति त्रियोगाश्चत्वारः । अलसं लुब्धं संहतबलं दुष्टं सामदानभेददण्डैरिति चतुर्योग एकः । एवं समुदायेन पञ्चदशयोगाः । उक्तं हि "तेषामेकयोगाश्चत्वारः, द्वियोगाश्च षट् । त्रियोगाश्चत्वारः एकश्चतुर्योग इति पञ्चदशयोगा अनुलोमात्तावन्तः प्रतिलोमाः " (कौटेि. अर्थ. ९. ७. १४६ ) इति ॥ ५२ ॥ मायादीनां स्वरूपभेदं नवभिः श्लोकैराह - देवतेत्यादि । देवतायाः प्रति- १. 'पूजयान्तर्गतैर्नरैः' ख ग. पाठः २. 'नम्' क. पाठः ३. 'श्व तथा द' ग. घ. पाठः. एष श्लोकपाठो व्याख्यानुसारादुतः । मूलकोशेषु नायं दृश्यते । मुद्रितमूलग्रन्थे तु- 'अपराद्धांस्तु सुस्निग्ध.न् स्नेहोक्त्या मानदानतः । साधयेद् भेददण्डाभ्यां यथायोगेन चापरान् ' इत्यस्ति. + ‘त्रियोगाश्च । द्वियोगाश्च षट् एकश्चतुर्योग इति पञ्चदशोपायाः, ताव' इति मुद्रित कौटिलीया- र्थशास्त्रपाठः.