पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः सप्तविंश प्रकरणम् । २१९ लुब्धं क्षीणं च दानेन सत्कृत्य वशमानयेत् । अन्योन्यशङ्कयाभिन्नान् दुष्टान् वै दण्डदर्शनात् ॥ ४७॥ पुत्रान् भ्रातॄश्च बन्धूंश्च साम्नार्थेनं च साधयेत् । एतैः कः सदृशो लोके दूरं विप्रकृतैरपि ॥ ४८ ॥ सामैतेषु प्रयुञ्जीत दैवात् प्रस्खलितेष्वपि । दुष्करां यान्ति विकृतिमार्याः शीलनिबन्धनाः ॥ ४९ ॥ कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता । अलोभ इति येष्वेते तानार्यान् परिचक्षते ॥ ५० ॥ लुब्धं क्षीणं चेति । ननु च परिक्षीणो लुब्धवर्गे पठितः । सत्यम् । लोभातिशयख्यापनार्थं पृथङ्निर्दिष्टः स इति । अन्योन्यशङ्कयाभिन्नानिति । परस्परशङ्काज(नन?ननेना) भिन्नान् संहतान् वशमानयेदिति संबन्धः । दुष्टान् दण्ड- स्य दर्शनाद् विकृतान् दण्डेन वशमानयेत् । एते एकयोगाश्चत्वारः ॥ ४७ ॥ सानार्थेन चेति । पुत्रादीनां मानित्वान् भोगादिकाङ्क्षित्वाच्च सामदानाभ्यां साधनं, न तु दण्डेनेत्याह — एतैरित्यादि । अनेन 'कर्कटकसधर्माणो हि राजपुत्रा जनकं भक्षयन्ति । तेषामजातस्त्रे हे पितर्युपांशुदण्डः श्रेयानिति भरद्वाज' (कौ- टि. अर्थ. १. १७. १३)इत्येतन्निवर्तयति । विप्रकृतैरपि राजापथ्यकारिभिरपि ॥४८॥ तस्मात् सामदानाभ्यामेव साधयेदित्याह -- सामैतेष्विति । दानसहितमिति शेषः । दैवादनयलक्षणात् प्रस्खलितेषु, अपिशब्दान्मानुषतोऽप्यनयात् । विकृतिं पुत्रादिषु नृशंसताम् ॥ ४९ ॥ कुलादयो गुणा व्याख्यातप्रायाः ॥ ५० ॥ १. 'त्यैव समा' क. पाठShardashah (सम्भाषणम्) ११:००, २२ नवेम्बर् २०२२ (UTC)ः. २. 'न तु क. पाठः, 'नैव सा' ख. ग पाठः ३. 'आयस्तांस्तु प्रच' क. पाठः. ४. 'कभक्षाः ते' क. ख. पाठः. ५. 'प्यपन' क ख पाठः,