पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२६८ कामन्दकयनीतिसारे अष्टादशः उत्साहदेशकालैस्तु संयुक्तः सुसहायवान् । युधिष्ठिर इवात्यर्थं दण्डेनास्तं नयेदरीन् ॥ ४३ ॥ आत्मनः शक्तिमुद्वीक्ष्य दण्डमप्यधिके नयेत् । एकाकी शक्तिसम्पन्नो रामः क्षेत्रं पुरावधीत् ॥ १४४ ॥ असं विक्रमश्रान्तं विहतोपायचेष्टितम् । क्षयव्ययप्रवासैश्च श्रमेण विपरितम् ॥ ४५ ॥ भीरुं मूर्ख स्त्रियं बालं धार्मिकं दुर्जनं पशुम् । मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥ ४६ ॥ अभित्त्वाप्यभ्युच्चितः प्रकाशं हन्यादित्याह -- उत्साहेत्यादि । उत्साहो विक्रमबलम् । सुसहायवान् सामवायिकाभ्युच्चितः । युधिष्ठिरो हि भ्रातॄणां दिव्या- स्त्रसंयोगादुत्साहशक्तिं समुद्वीक्ष्य देशकालौ सहायसम्पदश्च सप्ताक्षौहिणीसमवायी विग्रहेण सपत्नानवधीत् ॥ ४३ ॥ सामवायिकाभावेऽप्येकाकी पराक्रमशक्त्याधिक्यमवेक्ष्य विगृह्णीयादित्याह - आत्मन इति । अधिकेऽपि ज्यायस्यपि । रामः पितृवधामर्षितो निश्शेषं क्षत्रमवधीत् ॥ ४४ ॥ सामादीनां विषयभेदेनैकद्वित्रिचतुर्योगात् तद्भेदानष्टादशभिः श्लोकैराह - अलसमित्यादि । विक्रमेण श्रान्तं खिन्नम् । विहतोपायचेष्टितं निष्फलसामादिप्रयोगम् | क्षयव्ययावुक्तलक्षणौ । विपरितं विक्षिप्तसैन्यम् ॥ ४५ ॥ मूर्खमशास्त्रचक्षुषम् । बालमप्राप्तव्यवहारम् । दुर्जनमयुक्तकारिणम् । पशुं लोकव्यवहारबाह्यम् । मैत्रीप्रधानं सख्यैकनिष्ठम् । कल्याणबुद्धिमविसंवादकम् ॥ ४६ ॥ १. 'भ्य' मूलकोशेषु पाठ:.. ४. 'णापि प' मूलकोशेषु पाठः. २. 'क्षा' क. पाठः. ३ 'सन्तप्तं परिपीडितम्' क. पाठः. ५. 'तं' क. पाठः. ६. 'विक्र' क. ख. पाठ:.