पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 267 सर्गः ) सप्तविंशं प्रकरणम् । समतृष्णानुसन्धानमत्युग्रभयदर्शनम् । प्रधानं दानमाने च भेदोपायाः प्रकीर्तिताः ॥ ४० ॥ भेदं कुर्वीत मतिमान् विगृहीतो बलीयसा । शण्डामक सुरैभित्त्वा बलवन्तौ पराजितौ ॥ ४१ ॥ दण्डेन हि समाइन्याद् भित्त्वारेः संहतं बलम् । भिन्नं हि तत् काष्ठमित्र घुणजग्धं विशीर्यते ॥ ४२ ॥

पौरजानपदानां वधायाभ्युत्थितः । शक्यमाद्य प्रतिहन्तृप्रोत्साहननापकर्तुम् | अमर्षः क्रियतामिति क्रुद्धवर्गम् । यथा भीतः सर्पो यस्माद्भयं पश्यति, तत्र पुरा क्रोधावे- षमुत्सृजति, एवमयं राजा जातदोषाशङ्क त्वयि पुरा क्रोधविषमुत्सृजति । अयत्र गम्यतामिति भीतवर्गम् । यथा श्वगणिनां धेनुः श्वभ्यो दुग्धे न ब्राह्मणेभ्यः, एवमयं राजा सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नेभ्यो न दुग्धे न चालगुणसम्पन्नेभ्यः । असौ राजा पुरुषविशेषज्ञस्तत्र गम्यतामिति लुब्धवर्गम् । यथा चण्डालोदपानश्च- ण्डालानामेवोपभोग्यो नान्येषाम् एवम् अयं राजा नीचो नीचानामेवोपभोग्यः न त्वद्विधानामार्याणाम् । असौ राजा पुरुषविशेषज्ञत्तत्र गम्यतामिति मानिवर्गम् । कामात्त्तदभिलषितैः । निजान् आत्मीयान् ॥ ३९ ॥ त जलवद भिन्द्यादिति लेशतो भेद योपाय उक्तः । तमेव स्पष्टमाह -समतृष्णानुसन्धानमिति अत्यानुष्ठाने यथा मे लाभस्तथा तवापीति । अननुष्ठानेत्वमेव न भविष्यसीत्युग्रभयदर्शनम् । प्रधानम् उत्कृष्टम् ॥ ४० ॥ भेदव्याख्यानकं दर्शयितुमाह । - भेदमिति । शण्डामकौ सुन्दोपसुन्दौ सोदर्यौ सुरैर्भित्त्वा पराजितौ तिलोत्तमां प्रणिधाय ॥ ४१ ॥ 1 दण्डप्रयोग श्लोकत्रयेणाह - दण्डेनेत्यादि । समाहन्यादिति । अरबलं भित्त्वा पश्चाच्चतुरङ्गेण बलेन प्रकाशवधं कुर्यादित्यर्थः ॥ ४२ ॥ पाठ:. १. 'कामं दा' क. पाठः २. 'नौ' क. पाठः ३. 'हिं' क. पाठः ४. 'दरत्व' क. ख. ५. 'ई' ग. घ. पाठः.