पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

६६ कामन्दकीय नीतिसारे [अष्टादशः अकारनिरुद्धश्च कारणाच्च विशेषतः । अकारणात् परित्यक्तः पूजार्होऽप्रतिपूजितः ॥ ३७ ॥ हृतद्रव्यकलत्रश्च महाभोगाभिकाङ्क्षितः । परिक्षीणो बहिर्बन्धुर्वहिर्द्रव्यो बहिष्कृतः ॥ ३८ ॥ इति भेद्याः समाख्याता भिन्द्यादेतान् परे स्थितान् । आगतान् पूजयेत् काभैर्निजांश्च प्रशमं नयेत् ॥ ३९ ॥ मानिवर्गे द्रष्टव्यः । तुल्यमानादन्यामात् समानजातीयान्निराकृतः कृतहीनमानो राज्ञे कु-यति विषमवृत्तोऽयमिति । अयं क्रुद्धवर्गे ॥ ३६ ॥ अकारणनिरुद्ध इति शिल्पात् स्वामिना यो बद्धः, कारणाच्च तद्दोषाद् विशेषतोऽत्यन्तं निरुद्धः । स बन्धनपरिक्लिष्टस्तस्मै कुप्यति । एवमकारणात् परिस्यको निर्वासितः । तदुभयं क्रुद्धवर्गे । पूजार्होऽप्रति पूजितः मानिवर्गे क्रुद्धवर्गे वा ॥ ३७ ॥ 'हृत व्यकलत्र इति । गृहीतं तु बहुद्रव्यं यस्यालास्वच्छचेतसो ऽत्यन्तस्वया यात्रा पूर्वराशिमादातुकामो दत्ततृष्णावकाशो लुब्धवर्गे । प्रसभ मुक्तकलत्रश्च क्रुद्धवर्गे । महाभोगामिकाङ्क्षितः भोगेनासन्तुष्टोऽभिवर्धमानो महाभोगस्याभिकाङ्क्षिता मानिवर्गे । परिक्षीणः परितो युग्याद्यपचयाद् दुर्भिक्षादेश्च कारणात् प्राप्तक्षयो लुभ्यन् लुब्धवर्गे । बहिबन्धुः प्रवासितबन्धुः घातितोऽनेन मे बन्धुरिति । बहिद्रव्यो दारितसर्वस्वः । स सर्वत्वहारितत्वात् छन्नकृष्णावीजः कुप्यति । तदुभयं क्रुद्धवर्गे । बहिष्कृतः पापेन कर्मणा । सोऽसत्कर्माभिख्यातो भीत एवास्ते किमयं करिष्यतीति । अयं भीतवर्गे ॥ ३८ ॥ भिन्द्यादेतान् परे स्थितान् मुण्डजटिल व्यञ्जनैः । तद्यथा - मदान्धो हरती मनाधिष्ठिता यद्यदासादयति तत्तत् प्रमृद्वाति, एवमयनशास्त्रचक्षुरन्धो राजा १ 'णाविरु' क्र. ग. पाठः २. 'बहिः स्थि' क. पाठः. ३. 'योsवब' क. ख. पाठः. ४. 'स्वच्छस्साऽव्य (?) ग. घ. पाठ ५. 'पतया' ग घ पाठः. ६. 'भोपभु' ग. घ. पाठ ७न्तोषा हि व' क. ख. पाठः ८. 'पा' क, ख, पाठः ९, 'ण्डि' क. ख. पाठः