पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 256 सर्गः ] सप्तविंश प्रकरणम् । राजद्वेषी तत्कुलीनो द्विष्यते यश्च भूभुजा । आहितव्यवहारश्च तथा कारनिवेशितः ॥ ३४ ॥ रणप्रियः साहसिक आत्मसम्भावितस्तथा । विच्छिन्नधर्मकामार्थः क्रुद्धो मानी विमानितः ॥ ३५ ॥ भीतः स्वदोषवित्रस्तः कृतवैरोऽतिसान्त्वितः । अतुल्येन सहासक्तस्तुल्यमानान्निराकृतः ॥ ३६ ॥

राजद्वेषी स्वचित्तदोषादेव । स राज्ञो भीत इवास्ते । तत्कुलीनः राज्याभिलाषी । तस्माच्छङ्कावश्यमेव । द्विष्यते यश्च भूभुजेति । राजदोषाद् दौर्भाग्याद्वा । स कथं द्वेष्योऽहमिति ततः शङ्कित एव तिष्ठति । एते त्रयो भीतवर्गे । आहितव्यवहारः सर्वत्रैव निवेशित संव्यवहारः । स बहूनां धारकस्तद्वित्तग्रहणार्थं लुभ्यतीत्ययं लुब्धवर्गे । कारनिवेशितः, कारो दण्डः, तत्र गुरुतरे नियुक्तः त्वयेदमाशुं नेयमिति । स तस्मै कुप्यन् क्रुद्धवर्गे द्रष्टव्यः ॥ ३४ ॥ रणप्रियः स्वत एव मानी भवति । साहसिकः अविमृश्य यः सहसाच- रति । स मानाधिक्यात् कार्याकार्यानपेक्षी । आत्मसंभावितः विद्याभिजनादिभिः कोऽन्योऽस्मदधिक इति । एते त्रयो मानिवर्गे । विच्छिन्नधर्मकामार्थः । धर्मादी- नामर्थसाध्यत्वात् तदर्थं लुभ्यतीत्ययं लुब्धवर्गे । क्रुद्धस्तीक्ष्णः, योऽहङ्कारमपि न सहते । स मानिवर्गे । मानी च विमानितः क्रुद्धवर्गे ॥ ३५ ॥ भीतो राज्ञः प्रचण्डात् । स्वदोषवित्रस्त आत्मदुश्चरितेन शङ्कितः । कण्टकान् मर्दयिष्यामीति राजकीयं दण्डं याचिर्त्वान्यान् हतवान् । स स्वयमुपहतंत्वाद्ं भीत एव तिष्ठति । कृतवैरः सान्त्वितः । स हि पूर्वकृतवैरात् ततोऽपकारमुत्प्रेक्षमाणो भीत एवास्ते । एते त्रयो भीतवर्गे । अतुल्येन सहासक्तः नीचेन सह कर्मसु नियुक्तः । स नीचेनोपहतत्वान्नष्टोत्कर्षमात्मानं मन्यमानो १. 'शङ्कितः' क. पाठः २. 'महाशक्त' क पाठः. निमित्त' ग. घ. पाठः, ५. 'षित एवा' ग. घ. पाठः 6. 'र्यान' के. ख. पाठः 'पत्रे' ग. घ. पाठः, ३. 'नो नि' क. पाठः ४. 'स्व० ६. 'त्र' ग. घ. पाठः ७. 'वात' ग. घ. पा