पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ अष्टादशः २६४ कामन्दकीय नीतिसारे तत्कुलीनेन तुल्यस्तु पुमानभ्यन्तरोषितः । तस्मादेतौ परे भिन्द्याच्छमं चात्मनि सन्नयेत् ॥ ३० ॥ तत्रोपजापः कर्तव्यो यः कोपानुग्रहक्षमः । स कल्याणः शठो वेति परीक्ष्यः सूक्ष्मया धिया ॥ ३१ ॥ कल्याणस्तु यथाशक्ति करोति सफलं वचः । शठः पक्षौ चलयति द्वावप्यर्थोपलिप्सया || ३२ ॥ पूर्वं सम्भाषितोऽनीचः कालयापनमाश्रितः । मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः ॥ ३३ ॥ I तत्कुलीनेन तुल्यः सर्वावस्थत्वात् ।अभ्यन्तरोषितो विश्वासी । सोऽपि विकारितस्तत्कुलीनवद् ग्रसते । तस्मादेतौ परे भिन्द्यात् । शममात्मनि सन्नयेद्, विकृतौ प्रशमयेदित्यर्थः ॥ ३० ॥ कोपानुग्रहक्षम इति । कोपं कर्तुं शमयितुं च समर्थः । तत्र भेदः कार्यः । कल्याणः अविसंवादकः । शठस्तद्विपरीत इति ॥ ३१ ॥ सफलं कार्यानुष्ठानेन । पक्षौ चलयति अरिपक्षं विजिगीषुपक्षं च । सञ्चास्यार्थमादत्ते केवलं, न कार्य घटयति ॥ ३२ ॥ क्रुद्धादीन् भेदयेदित्युक्तं, के क्रुद्धादय इत्याह- संभाषित इत्या- दि । इदं ते दास्यामीति पूर्वमाभाषितः । अनीचो महात्मा । स तस्मादलब्धार्थः । केवलं कालयापनमाश्रितः, नात्मयापनया । स तेन राज्ञा संश्रुत्यार्थाद् विप्रलब्ध- स्तस्मै कुप्यति विसंवादकोऽयमिति । मिथ्याभिशस्त इदमनेन प्रतिषिद्धमाच- रितमिति मिथ्यादूषितः कुप्यति । श्रीकामो व्यवहारे विजयाथीं । स सम्यगहमेव ते व्यवहारं द्रक्ष्यामीत्याहूयाप्रतिमानितः पराजितः क्रुध्यति । एते त्रयः क्रुद्धवर्गे द्रष्टव्याः ॥ ३३ ॥ १. 'सल्लापितो क. पाठः, 'र्वसम्भावितो' ख. ग. पाठः. २. 'वयवत्वा' ग. घ. पाठः. ३. 'सल्लापित' क. ख. पाठः. ४. 'थे वि' ग. घ. पाठः. ५. 'क्रुध्यति' ग. घ. पाठः.