पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २६३ सर्गः ] सप्तविंशं प्रकरणम् | अलब्धवेतनो लुब्धो मानी चाप्यवमानितः ।

क्रुद्धश्च कोपितोऽकस्मात् तथा भीतश्च भीषितः ॥ २५ ॥ यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् । परपक्षे स्वपक्षे च यथावत् प्रशमं नयेत् ॥ २६ ॥ भेदं कुर्वीत यत्नेन मन्त्र्यमात्यपुरोधसाम् । तेषु भिन्नेषु भिन्नं हि युवराजे तथोर्जिते ॥ २७ ॥ अमात्यो युवराजश्च भुजावेतौ महीपतेः । मन्त्री नेत्रं हि तद्भिन्न एतस्मिन्नपि तद्वधः ॥ २८ ॥ सर्वावस्थं तु मेधावी तत्कुलीनं विकारयेत् । विकृतस्तत्कुलीनस्तु स्वयोनिं ग्रसतेऽग्निवत् ॥ २९ ॥ अलब्धवेतनः अलब्धलाभः । नन्वत्र विमानितो मानी क्रुद्धवर्गे भवति । सत्यम् । आशुभेदप्रतिपत्त्यर्थं विशेषणम् । एवञ्चालब्धवेतनो लुब्धः, क्रुद्धश्च कोपितः, भीतश्च भीषितः इत्यपि विशेषणमर्थवत् || २५ ॥ कामैर्भिन्द्यादेतान् परपक्ष इति सम्बन्धः । स्वपक्षे च यथावत् प्रशमं नयेत् सामादिभिरकृत्यतां नयेत् ॥ २६ ॥ अमात्यः कर्मसचिवः । स चात्राक्षपटलिको विज्ञेयः । ऊर्जिते लब्ध- प्रभावे ॥ २७ ॥ भुजावेतौ, ताभ्यां राज्यभारस्योद्यमानत्वात् । पुरोहितस्यामात्येऽन्तभावः । मन्त्री नेत्रं, तेन सन्ध्यादिपदार्थस्यालोच्यमानत्वात् । तद्वधो महीप०८:१२, २२ नवेम्बर् २०२२ (UTC)०८:१२, २२ नवेम्बर् २०२२ (UTC)~~तिविनाशः ॥ २८ ॥ सर्वावस्थं क्षयलोभविरागप्राप्तम् । विकारयेत् संघर्षयेत् । अग्निवद्, अग्निर्ह्यरणिमेव नाशयति ॥ २९ ॥ १. 'रु' मूलकोशेषु पाठः. २. 'क क. पाठः. ३. 'साया' क. ख. पाठः.