पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२. गजाश्वरथपत्तिकर्मप्रकरणम्. २९४-२९६. प्रयाणे पूर्वयायित्ववनदुर्गप्रवेशनादेर्हस्ति कर्मता, परसैन्यनिषेधादे रथकर्मता, वनदिङमार्गविचयादेरश्वकर्मता, सर्वदा शरूवारणस्य युद्धयोग्यपदातिकर्मता, कूपादिशोधनप्रभृतांनां विष्टिकर्मता, पत्तिकुञ्जरवाजिनां जातिसत्त्वादिलक्षणं परीक्ष्य तत्तत्कर्मसु नियोजनम् । ३३. पत्त्यश्वरथगजभूमिमकरणम् . २९६ – २९८. सस्थूलस्थाणुबल्मी कगुल्मत्वाद्युपता पदातीनां स्वल्पवृक्षोपलवायुपेता वा जिनां निःस्थाणुसिकतापकत्वाद्युपेता स्थानां मर्दनीयतरुत्वायुपेता हस्तिनां च युद्धयोग्या भूमिः, जयार्थिनो नृपतेर्भिन्नस्य स्वबलस्यावश्यं प्रतिग्रहणं, तदृते युद्धस्य निषेधः । ३४. दानकल्पनामकरणम्. २९९ – ३००. राजत्वस्य कोशाधीनत्वात् सारभूतस्य कोशस्य सदा राजसमीप एवावस्थानं, कृतप्रत्यग्रकर्मभ्यो योधेभ्यः श्लाघासत्कारपूर्वकं दानं, राजबधे यथादेशमसिद्धस्याहतद्रव्यस्य लक्षस्य दानं, राजपुत्रवधे सेनापतिवधे च पञ्चाशत्सहस्राणां प्रवीर मुख्यवधे दशसहस्राणां कुञ्जरवधे स्यन्दनभङ्गे च पञ्चसहस्राणाम् अश्ववधे सहस्रस्य पत्तिमुख्यवधे शतस्य शेषेषु शिरः प्रमाणीकृत्य विंशतेश्च दानं, तत्तद्वेतनस्य च द्वैगुण्यकरणं, वाहनहेमादिषु यो यजयति तस्य तद् वा तदनुरूपं वस्त्वन्तरं वा दत्त्वा प्रहर्षणम् । ३५. व्यूहविकल्पप्रकरणम्. ३००–३१०. पञ्चहस्तप्रमाणे प्रदेशे धन्विन एकस्यावस्थापनं, ततस्त्रिगुणेऽश्वस्य प्रत्येकं पञ्चविंशतिप्रमाणे गजरथयोश्यावस्थापनं, पदातिद्वयस्य चतुर्दशाङ्गुलप्रमाणमन्तरं, द्वयोरश्वयोस्ततस्त्रिगुणं, गजयो रथयोश्च पृथक् षष्ट्यङ्गुलमन्तरं, पत्त्यश्वरथदन्तिनां व्यायामबिनिवर्तनसौकर्यानुरूपं बाबस्थापनं, सङ्कलावहतया युद्धे सङ्करस्य निषेधः, महासङ्करयुद्धे महागजानामाश्रयणं, प्रत्यश्वं पुरस्सर तया पुरुषत्रयस्यावस्थानमिति रीत्या प्रतिकुञ्जरं प्रतिस्यन्दनं च पृथक् पञ्चाश्वानां