पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तत्पार्श्वयोरटवीबलस्य च यानं, पश्चात् सन्नद्धसैन्यौघस्य खिन्नानाश्वासयतः सेनापतेः सर्वसैन्यपुरस्कारपूर्वकं गमनं, पुरोभये विस्तीर्णमुखेन मकरव्यूहेन वा मुखनिवेशितशूरयोधेन सूची व्यूहेन वा तिर्यग्भये विस्तृतपक्षेण श्येनव्यूहेन पश्चाद्धये पश्चाद् विस्तीर्णमुखेन शकटव्यूहेन पार्श्वद्वयभये उभयतो विस्तीर्णमुखेन वज्रव्यूहेन सर्वतोभये सर्वतोमुखेन सर्वतोभद्रव्यूहेन च यानं, कन्दरादिपरिश्रान्त्यादिषु स्वसैन्यस्य व्यसनेषु सेनापतिना तस्यासमाकुलं रक्षणं परसैन्याभिहननं च । ३१. कूटयुद्धविकल्पप्रकरणम्. २८८- २९३. देशकालविशिष्टस्य कृतारिसैन्यभेदस्य बलिष्ठस्य प्रकाशयुद्धकरणम्, अन्यथा कूटयुद्धकरणं, कन्दराशैलादिप्रयाणादिषु समाकुलस्य अभूमिष्ठस्य स्वभूमिष्ठस्य वोपजापादवकाशं लब्ध्वा हननं, दूष्यामित्रादिबलैः खभूमितोऽपकृष्य विभूमिं प्रापितस्य परस्य प्रवीरपुरुषैर्हननं, पुरस्ताद् दर्शनदानेन तत्र कृतावधानानां शत्रूणां पश्चात् प्रवीरपुरुषैर्हननं, पश्चात् कृतावधानस्य शत्रोः पूर्वतः प्रवीरपुरुषेण हननम्, एवं दक्षिणतो वामतो वावधाने वामतो दक्षिणतो वा हननं, पुरस्ताद्देशे परिवर्तनाद्ययोग्ये पश्चाद्धननं, पश्चाद्देशे तादृशे पूर्वतः दक्षिणतस्तादृशे वामतः वामतस्तादृशे दक्षिणतश्च हननं, दूष्यामित्राटवीबलैः प्रथमं युद्धेन श्रान्तस्य परस्य स्वयमश्रान्तेन हननं, दूष्यामित्रबलभङ्गप्रतीतिमात्रेण जये विश्वस्तस्य शत्रोः प्राक् सत्रव्यपाश्रयेण प्रयत्नवता विजिगीषुणा हननं, परानीकस्य स्कन्धावारादिषु विलोभ्य स्वयमप्रमत्तेन विनाशनम्, अन्तर्गतसारबलस्य फल्गुसैन्यस्याभिघातमात्रेण मन्दयत्नस्य शत्रोः सारबलेनोत्प्लुत्य हननम्, आटविकप्रोत्साहनेन मृगयाव्याप्तस्य निराश्रयस्य हननं, गोग्रहणेनान्यतः समाकृष्य गोग्रहणकृतलक्ष्यस्य मार्गेषूपरुध्य हननम्, अवस्कन्दभयाद् रात्रौ कृतजागरस्य दिवा सुप्तस्य हननं, पूर्वाह्वसन्नाहतः श्रान्तस्यापराह्णे मुक्तसन्नाहस्य विनाशनं, निशि विस्रम्भसुप्ते परबले सपादकोशावरणैर्नागैः खनपाणिभिर्नरैर्वा सौप्तिककरणं, प्रतिसूर्यमहावातं सम्मीलितेक्षणस्य परबलस्य हननं, नीहारतिमिरादीनां सत्रत्वं, तस्यैवात्मच्छादनाच्छद्मत्वं च, येन प्रकारेण परं निहन्यात् तेन प्रकारेण परस्मादपि शङ्कनं, कूटयुद्धेन शत्रुघातस्याधर्मत्वाभावः ।