पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देशकलत्वादिभिः शत्रुबलाद्‌ मैत्रस्य निसर्गत अधार्मिकत्वादिभिराटविकच्छत्रुबलस्य च गरीयस्त्वं, शा्रुराज्यविलोपाय कालपेक्षयोरमित्राटविकबलयोर्विलोपे व्यसनाभावे च विजिगीषोः शत्रुजयस्य ध्रौव्यम्‌, अन्यथा ताभ्यां विजिगीषोररिभयमुपजाभयं च, विजिगीषोः परं प्रति तयोरुपजापे विजयस्य नैयत्यं, मौलबलेनोपचितं परं पति वा दूरमार्गे गन्तव्ये दीर्घकाले प्रेषयितव्ये वा मौलेरव ` विजिगीषोर्यानम्‌ , उक्तविषये भृतादिभ्यो भेदभयस्यावसरः, आत्मनो भृतबलस्य बाहल्ये मौलबरस्यास्पलत्वेऽसारवत्त्वे च शत्रोर्वा मोलस्याल्पत्वे विरक्ततायामसारवत्त्वे च मन्त्रेणाल्पायासेन वा योद्धव्ये च अध्वकालयोः क्षयव्यययोर्वाल्पतायां च स्वसैन्यस्योपजापाभावेन विश्वस्ततायां परस्य वा हन्तव्यम्य प्रसारस्याल्पतायां च भूतवलैरभियानं, श्रेणिबलस्य यात्रास्थानीययोरुभयोरपि‌ पर्याप्ततायां प्रवासव्यायामयोश्चाल्पत्वे श्रेण्येव समुत्पतन, मित्रबलस्य यात्रास्थानीययोः पर्याप्ततायां प्रवासस्याल्पत्वे व्यायामयुद्धस्य च भूयस्त्वे मित्रसाधारणकार्यादौ च