पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ पञ्चदशपुरुषाणां च पुरःसरतयावस्थापनं, तथा हस्तिपादमूले हस्तिपादरक्षकाणां पञ्चाश्वानां पञ्चदशपुरुषाणां चावस्थापनम् एवं नवद्विपानामनीक मिति संज्ञा, द्वयोरनीकयोरन्तरस्य पञ्चविंशतिहस्तप्रमाणता, मध्ये त्रिकत्रयकल्पितस्यैकस्यानीकस्योरस्यमिति संज्ञा, तत्पार्श्वयोस्तत्प्रमाणयोरनीकयोः कक्षाविति संज्ञा, ततो बहिरुभयतस्तादृशयोः पक्षाविति संज्ञा, उरः कक्षौ पक्षी मध्यः पृष्ठं प्रतिग्रहः कोटी इति सप्ताङ्गता पञ्चानीकस्य व्यूहत्य, राजस्थानलक्षणेन प्रतिग्रहेण सह षडनीकस्यैव सप्ताङ्गतेति गुरोर्मतं, कक्षाभ्यां वर्जितस्य चतुरनीकस्यैव पञ्चाङ्गतेति शुक्रमतम्, अभेद्यत्वादिगुण विशिष्टानां सेनाङ्गाधिपत्ये नियोजनम्, एतेषां प्रवीरपुरुषावृतानामेवावस्थानम्, ऐकमत्येन परस्पररक्षापूर्वकं युद्धकरणं, फल्गुसैन्यस्य व्यूहमध्ये प्रवेशनं, युद्धवस्तुनो व्यूहपृष्ठभागेऽवस्थापनं, युद्धस्य नायकप्राणत्वाद् राजस्थानभूतस्य मुण्डानकस्य बलमध्ये नियोजनं, पत्त्यश्वरथदन्तिनां पृष्ठतः क्रमेणावस्थानरूपस्य व्यूहस्याचल इति संज्ञा, तथा हस्त्यश्वरथपत्तीनामवस्थानस्याप्रतिहत इति संज्ञा, उरसि नागानां कक्षयो रथानां पक्षयोरवानां चावस्थानादिरूपस्य मध्यभेदीत्यादयः संज्ञाः, आहृत्य प्रकृतिव्यूहेन सहैकत्रिंशतो व्यूहमेदानां युद्धकाले यथा- योगमुपयोगः । , , ३६. प्रकाशयुद्धप्रकरणम्. ३११-३१२. पक्षादीनामन्यतमेन परव्यूहं हत्वा शेषैः परिक्षेपः, उरस्येन हत्वा प्रपक्षाभ्यां वेष्टनं, पक्षाभ्यां परव्यूहप्रपक्षौ समाक्रम्य प्रतिग्रहकोटिभ्यां प्रोरस्यस्य हृननम्, उरसा च पीडनं, फल्गुन्युपजापवति दूव्याधिष्ठिते च परव्यूहभागे शत्रुबलस्य हननम्, आत्मबलस्य चोपबृंहणं, सारस्य द्विगुणसारेण फल्गुनः सारेण च पीडनं, संहतस्य प्रचण्डैर्गजानीकैरपसारणं, दुर्जयानां करिणां सिंहवसासिक्तैर्मतङ्गजैनिंपुणयोधाधिष्ठितैः करिणीसमूहैर्वा हननं, शत्रुसैन्यस्य विशिष्टर्मतङ्गजैर्हननं, नागाधीनत्वाद् विजयस्य सैन्येषु नागानामाधिक्यस्यावश्यकता ।