पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [अष्टादशः २६० कामन्दकीय नीतिसारे विषेणोपनिषद्योगैः शस्त्रेणोद्वर्तनेन वा । तथोपांशु नयेद्दण्डं यथान्यो न विभावयेत् ॥ १२ ॥ ब्राह्मणे जातिमात्रेऽपि धार्मिके चान्त्यजेऽपि वा । धर्मोन्निनीषया धीमान् न वधं दण्डमादिशेत् ॥ १३ ॥ उपेक्षया वा हन्तव्या येषूपांशु प्रशस्यते । उपेक्षां चापि निपुणः प्रत्यक्षं परिवर्जयेत् ॥ १४ ॥ प्रलिम्पन्निव चेतांसि दृष्ट्या साधु पिबन्निव । स्रवन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ॥ १५ ॥ वागनुद्वेगजननी सामेति परिकीर्त्यते । सामाख्या सूनृते सान्त्वे प्रिये स्तोत्रे च कीर्त्यते ॥ १६ ॥ स चोपांशुदण्डः कथं प्रयोक्तव्य इत्याह - विषेणेत्यादि । अभ्यवहार्यादि- संसृष्टेन विषेण । उपनिषद्योगैः रहस्यप्रयोगैरग्न्यादिभिः । शस्त्रेण तीक्ष्णप्रयुक्तेन । उद्वर्तनेनेति । के (न) चित् स्फोटादिजनकेन विलेपनेन ॥ १२ ॥ 1 अन्त्यजे चण्डालादौ । धर्मोन्निनीषया धर्मोद्विभावयिषया । न वधदण्ड- मादिशेत् परिक्लेशार्थहरणे तु विनयाधानार्थमादिशेदेव ॥ १३ ॥ विधानान्तरमाह-- उपेक्षया वेत्यादि । उपेक्षां वक्ष्यति । नृपवल्लभादीनां यद्यन्ये हन्तारः स्युस्तदा तैरेव हन्यताभित्युपेक्षां कुर्यात् । प्रत्यक्ष परिवर्जयेद्, वधस्य हि प्रत्यक्षमुपेक्षामाचरंस्तैरेव हन्येत अस्मद्विनाशमुपेक्षत इति ॥ १४ ॥ यथा सामादीन् प्रयुञ्जीत तथा दर्शयति श्लोकचतुष्टयेन – प्रलिम्पन्नित्यादि । साम प्रयुञ्जीत, किं तत् सामेत्याह - प्रियं वच इति ॥ १५॥ -- तदेव पञ्चविधं सूचयन्नाह - वागित्यादि । अनुद्वेगजननी विस्रम्भजननीं । सा वाक् परस्परोपकाराणां दर्शने आख्याने सम्बन्धाख्याने सूनृते समाख्याने सान्त्वे तवाहमिति चार्पणे प्रिये आयतिसम्प्रकाशने स्तोत्रे गुणकी०७:५५, २२ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्)र्तने ॥ १६ ॥ १. 'वर्तते' क. पाठः. २. 'र्तिता ।' क. पाठः. तेsस्म' क. ख. पाठः. + 'साख्याने सूनृते' इति व्याख्यातुः पाठः स्यात् . ३. ‘श्लि’क. ख. पाठः. ४. 'न्य-