पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 261 सर्गः ] सप्तविंशं प्रकरणम् । आत्मनो विक्रयमिव कुर्वन् दद्यात् समीहितम् । जलवत् पर्वताञ्छत्रून् भिन्द्यादनुपलक्षितः ॥ १७ ॥ दण्डपाणिरिवाधृष्यो दण्डं दण्ड्येषु पातयेत् । प्रत्यक्षामपि चोपेक्षामप्रत्यक्षामिवाचरेत् ॥ १८ ॥ साम्नार्थसिद्धये विद्वान् यतेत यतमानसः । सामसिद्धिं प्रशंसन्ति सर्वतश्च विपश्चितः ॥ १९ ॥ क्षीरोदो मथितः साम्ना फलायामरदानवैः । निजघ्निरे धार्तराष्ट्राः सामप्रद्वेषिणोऽचिरात् ॥ २० ॥ विक्रयमिव कुर्वन्निति अङ्गार्पणेनात्मानं विक्रीणन्निव । दद्यात् समीहितं यद् दातुमभिप्रेतम् । जलवद् भिन्द्यात् शनैः शनैः ॥ १७ ॥ दण्डपाणिरिव यम इव भूतानामवृष्यः । * प्रत्यक्षमपीति । वधस्य प्रत्यक्षमुपेक्षां वर्जयेदित्युक्तं प्राक् । इदानीं तस्य विशेषः । प्रत्यक्षमुपेक्षामप्रत्यक्षमिवाचरेदाकार संवरणेन ॥ १८ ॥ एते च सामादयो यथाक्रमं प्रयोक्तव्याः । तत्र लोकद्वयेन सामप्रयोगमाह- सामनेत्यादि । अर्थसिद्धये यतेत यतमानसः, असंयतचेतसो हि सामाभावात् । सर्वतः सर्वत्र चतुर्ष्वप्युपायेषु, सर्वेभ्य उपायेभ्यः ॥ १९ ॥ माह--सामप्रधानस्य सामद्वेषिणश्च गुणदोषावाह :- क्षीरोद इति । पुरा किल क्षुज्जरापीडिता देवाः ब्रह्माणमुपगम्य तत्पीडोपशमं पप्रच्छुः । स तानाह क्षीरोदं निर्मथ्यामृतं पिबतेति । ते तत्स्तुतिपराश्चिरकालं तमाराध्य दानवसहायाः ममन्धु- रिति । धार्तराष्ट्राः दुर्योधनादयः । ते विक्रमैकरसा मानिनः सामसाध्येषु पाण्डुषु विक्रममाणास्तैर्निहता इत्यंतिप्रतीतम् ॥ २० ॥ १. 'वस्तुषु पण्डिताः ॥' ख. ग. पाठः. २. 'ति प्र' ग. घ. पाठः.

  • प्रत्यक्षाप्रत्यक्षशब्दौ टाबन्तावेव तु मूलकोशेषु पठ्येते.