पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २५९ सर्गः ] सप्तविंशं प्रकरणम् । स्नेहरागापनयनं सङ्घर्षोत्पादनं तथा । सन्तर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः ॥ ८ ॥ वधोऽर्थहरणं चैव परिक्लेशस्तथैव च । इति दण्डविभागज्ञैर्दण्डस्तु त्रिविधः स्मृतः ॥ ९ ॥ प्रकाशश्चाप्रकाशश्च वधो द्विविध उच्यते । प्रकाशदण्डं कुर्वीत लोकद्विष्टे तथा रिपौ ॥ १० ॥ उद्वेज्यते हतैर्लोको यैर्ये स्युर्नृपबल्लभाः । बाधतेऽभ्यधिका ये तु तेषूपांशु प्रशस्यते ॥ ११ ॥

भेदस्त्रिविध इति । परस्माद् विश्लेषणं भेदः । स द्विविध उक्तः कौटिलीये शङ्काजननमभिभर्त्सनं च । भेदानुग्रहेण वृद्धः प्रासादतरुवत् स्वमाश्रयमेवो- च्छेत्स्यतत्यिाशङ्काजननम् । अस्य त्वस्मिन् मित्राभिग्रहस्य परिणामोऽस्मत्तो भवि- ष्यतीत्येवम्प्रकारसन्तर्जनमभिभर्त्सनम् । तत्र शङ्काजननं कार्यद्वारेण द्विधा विभ- ज्येह त्रिविध उक्तः । उत्पादिता हि शङ्का स्नेहं भक्तिं चापनयति स्पर्धा चोत्पादयति ॥ ८ ॥ वधः प्रवासनम् । परिक्लेशः बन्धनताडनादिभिर्दुःखोत्पादनम् ॥ ९ ॥ वधाख्यस्य दण्डस्य विषयभेदं चतुर्भिः श्लोकैर्दर्शयति - प्रकाश इत्यादि । पूर्वंद्विविध उच्यते वधाख्यो दण्डः । लोकद्विष्टाश्चोरपारदारिकादयो रिपवश्व प्रकाश हता न दोषाय ॥ १० ॥ हतैयैर्दृष्टैरपि । नृपवल्लभाः स्यालादयः । तेऽपि लोके दृढभक्तिताख्या- पनार्थमप्रकाशं हन्तव्याः । ये चाभ्यधिका बलीयांसः प्रकाशं हन्तुमश०७:४८, २२ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्)क्याः ॥ ११ ॥ १. 'ते च लो' क. पाठः. २. 'ये च स्यु' क. पाठः. ३. 'द्वाः शेषं सुप्रसन्नमित्यष्टा- दशः सर्गः । ' इति ङ. पाठः.