पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [अष्टादश: २५८ कामन्दकीय नीतिसारे परस्परोपकाराणां दर्शनं गुणकीर्तनम् ।

सम्बन्धस्य समाख्यानमायतेः सम्प्रदर्शनम् ॥ ४ ॥ वाचा पेशलया साधु तवाहमिति चार्पणम् । इति सामप्रभेदज्ञैः साम पञ्चविधं स्मृतम् ॥ ५ ॥ य_ सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः । प्रतिदानं तथा तस्य गृहीतस्यानुमोदनम् ॥ ६ ॥ द्रव्यदानमपूर्व च स्वयंग्राहप्रवर्तनम् । देयस्य प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ ७ ॥ तत्र चतुष्टयस्य स्वरूपभेदं षड्भिः श्लोकैराह -- परस्परोपकाराणामित्यादि । त्वयेदमस्मासूपकृतं मया युष्मास्विदमिति पूर्वकृतानामुपकाराणां दर्शनम् । गुणकीर्तनं शूरः श्रुतवान् यद्वा रूपवानित्यादि । सम्बन्धस्य समाख्यानं या त्वद्भगिनी सा मद्भ्रातृभार्येति यौनत्य, अस्मत्पितुः सकाशात् त्वयाधीतमिति मौलस्य । आयतिसम्प्रकाशनम् । अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननम् ॥ ४ ॥ पेशलया हृदयहारिया । तद्यथा-य योऽहं स भवान्, यन्मम द्रव्यं, तद् भवता स्वकृत्येषूपयुज्यताम् इति ॥ ५ ॥

उत्तमाधममध्यम इति । सारासारो मध्यमोपायः । सम्प्राप्तो गृहीतो धनोत्सर्गे द्रव्यसम्पत्, तस्य गृहीतस्य तथा सारासारादिभेदेन प्रतिदानं प्रत्यर्पणम् अनुप्रतिदानमित्यर्थः । गृहीतस्यानुमोदनम् अनुज्ञानम् ॥ ६ ॥ द्रव्यदानमपूर्वं च भाण्डागारादुद्धृत्य यदभिनवं दानम् । स्वयं ग्राहप्रवर्तनं, परस्वेष्विति शेषः । अमुष्माद् द्रव्यं गृहाण तवैव भविष्यतीति । देयस्य प्रतिमोक्षणम् ऋणादिप्रतिमोचनम् ॥ ७ ॥ १ 'प्राक्सम्बन्धस' ख. ग. पाठः. ख. ग. पाठः, ४. 'जयवा' ङ. पाठः २. 'यतेश्च प्र' ख. ग. पाठः. ५. तिप्र' ग घ ङ. पाठः ३. 'सम्प्राप्तो यो ध ६ 'ण्या यथा' ङ. पाठः,