पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथाष्टादशः सर्गः TO

  • २७ उपायविकल्पप्रकरणम् *

महाप्रज्ञानसम्पन्नः सहायैरुपबृंहितः । उद्योगाध्यवसायाभ्यामुपायान् निक्षिपेत् परे ॥ १ ॥ चतुरङ्गं बलं मुक्त्वा कोशो मन्त्रश्च युध्यते । तत् साधुमन्त्रो मन्त्रेण कोशेन च जयेदरीन् ॥ २ ॥ साम दानं च भेदश्च दण्डचेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ॥ ३ ॥ एवं शुभाशुभनिमित्तदर्शनाल्लब्धोत्साहः शत्रौ विजिगीषुरुपायान् प्रयुञ्जीत । शत्रुजयस्योपायसाध्यत्वादित्युपायविकल्प उच्यतेऽस्मिन् सर्गे । यदाह -महा- मज्ञानसम्पन्न इत्यादि । महती अष्टाङ्गा प्रज्ञा यस्य स महाप्रज्ञानः सम्पन्नैश्च सहायैः यदा सहायसम्पदादयः षट् सिद्धिहेतवो गुणाः स्युस्तदा शत्रौ निक्षिपेदु- पायान् ॥ १ ॥ कुत्र कमुपायमादौ निक्षिपेदित्याह -- चतुरङ्गमित्यादि । कोशो मन्त्रश्च युध्यते प्रथमम् । हस्त्यश्वरथपदातिभिर्व्यायामयुद्धमन्त्यावस्थायां क्रियते । तस्मात् प्रथमं मन्त्रेण सामभेदात्मकेन कोशेन कृतेन जैयेदरीन् । साधुमन्त्रः कृतपञ्चाङ्ग- विनिर्णयत्वात् ॥ २ ॥ के पुनरुपाया इत्याह- - सामेत्यादि । तत्र सामादिचतुष्टयं सर्वेषामेवा- चार्याणामभीष्टमिति पृथङ् निर्दिष्टम् । मायादिभिः सह सप्तोपायाः प्रकीर्तिताः कैश्चित् ॥ ३ ॥ १. 'सत्त्वदैवोप' मूलकोशपाठः २. 'विधः । क. पाठः ४. नः स' ग, घ, ङ. च. पाठः. १५. 'जीयाद' क. ख. पाठः पाठ:. ३. 'वं शुभनि' क. ख. पाठः. ६. 'ता इति कश्चि' ग. घ.