पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ सप्तदशः सर्गः ।

२५६ कामन्दकीय नीतिसारे इति प्रयत्नेन निवेशयेद् बलं शुभाशुभं चास्य तथोपलक्षयेत् । परस्य चैतन्निपुणं विलोकयेत् समारभेताशुभहीनदर्शने ॥ ४१ ॥ ( इति निमित्तज्ञानं नाम षड्विंशं प्रकरणम् ) [सप्तदशः सर्गः ] इति कामन्दकीय नीतिसारे स्कन्धावारनिवेशननिमित्तज्ञाने नाम प्रकरणद्वयार्थमुपसंहरन्नाह — इतीत्यादि । परस्य विलोकयेद् निवेशं - शुभाशुभं च । अशुभहीनदर्शन इति परस्कन्धावारस्याशुभस्यैच दर्शने हीनस्य च दर्शने समारभेत विग्रहमित्यर्थात् ॥ ४१ ॥ (इति निमित्तज्ञानं नाम षड़र्विशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायां स्कन्धावारनिवेशनानिमित्तज्ञाShardashah (सम्भाषणम्) ०६:१८, २२ नवेम्बर् २०२२ (UTC)ने नाम सप्तदशः सर्गः । १. 'रंश्चाद' ग. घ. पाठः २. 'स्य निवेशनं ही' क. ख. पाठः ३. 'नं' कोशेषु पाठः.