पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] षड्विंश प्रकरणम् । -२५५ सहायसम्पत् प्रज्ञानं सत्त्वं दैवानुकूलता । उद्योगोऽध्यवसायश्च यस्यैते तस्य सिद्धयः ॥ ३७ ॥ तन्मूलत्वात् प्रजानां तु राजा स्कन्ध उदाहृतः । आवारोऽमात्यदण्डादिर्वृतिरावार उच्यते ॥ ३८ ॥ भूतानां भूतिनिष्पत्तेरावारेण महीयसा । आवृतस्तु यतः स्कन्धः स्कन्धावारस्ततः स्मृतः ॥ ३९ ॥ समवस्कन्दघासाम्बुवीवधासारनिग्रहाः । एते प्रयत्नतो रक्ष्याः स्कन्धावारस्य मृत्यवः ॥ ४० ॥ सिद्धिनिमित्तान्तराण्याह सहायसम्पदित्यादि । प्रज्ञानं प्रज्ञा अष्टाङ्गा । दैवानुकूलता प्रागुक्ता । उद्योग उत्साहः । अध्यवसायो व्याख्यातः (स. १६. श्लो. ३४.) ॥ ३७ ॥ कः पुनः स्कन्धावारः, यस्य निमित्तज्ञानमित्याह - तन्मूलत्वादिति । यथा शाखानां वृक्षस्कन्ध आश्रयस्तथा राजा प्रजानामाश्रयत्वात् स्कन्ध उच्यते । आवारोऽमात्यदण्डौ । अमात्यप्रकृतेर्दण्डप्रकृतेश्च सचेतनायाः प्राधान्येन व्याप्रियमाणत्वात् । वृतिरावार उच्यत इति फलत आवारत्वमात्रं दर्शयति ॥ ३८ ॥ 1 भूतानां भूतिनिष्पत्तेरिति । प्रजानां त्रिवर्गनिष्पत्तेः कारणादित्यपरं प्रयोजनम् । आवृतस्तु यतः स्कन्ध इति करणसाधनात्मिकां व्युत्पत्तिं दर्शयति । इदमुक्तं भवति – प्रजाभिः स्वभूतिनिष्पत्त्यर्थिंनीभिस्तत्परिरक्षार्थं तत्साहायकार्थे चाब्रियते अमात्यदण्डादिकया वृत्या स्कन्धोऽनेनेति स्कन्धावारः ॥ ३९ ॥ अस्य निवेशितस्य रक्षणोपायमाह - समवस्कन्देत्यादि । निग्रहशब्दो विघा०६:१५, २२ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्)ते द्रष्टव्यः, घासादिभिश्च प्रत्येकं योज्यः ॥ ४० ॥ १. 'गो व्यव' ख. ग. पाठ:. ४. 'व्यव' कः ख. पाठः. ५. २. 'त्ति' क. ख. पाठः ३. 'यत आवारितः स्क' क. पाठः. 'ते स्क' ग. घ. पाठः.