पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [सप्तदशः

२१४ 'कामन्दकीय नीतिसारे प्रशस्त कूजद्विहगः प्रदक्षिणशिवारुतः । नीचैःप्रवृत्तानुलोममारुतः स्तुतमङ्गलः ॥ ३२ ॥ हृष्टपुष्टजेनः साधुः सुगन्धिर्ज्वलितानलः । अमन्दमत्तमातङ्ग आसाराभ्युदयान्वितः ॥ ३३ ॥ इत्यादिलक्षणोपेतः स्कन्धावारः प्रशस्यते । शस्ते तस्मिन् द्विषो भङ्गोऽशस्ते ज्ञेयो विपर्ययः ॥ ३४ ॥ सिद्ध्यसिद्धी निमित्तानि यतः शंसन्ति कर्मणाम् । विद्यादात्महिताकाङ्क्षी तस्मादेतानि तत्त्वतः ॥ ३५ ॥ प्रशस्तेन निमित्तेन विशुद्धेनान्तरात्मना । व्यक्तमारभ्यमाणं हि सिद्धिं याति समीहितम् ॥ ३६ ॥ विहगांः काकादयः । अनुलोमो मारुतः पृष्ठतोवाही । स्तुतमङ्गलः स्थान- स्थानेषु वैन्दिभिः ॥ ३२ ॥ साधुः परस्परद्रोहाभावात् । सुगन्धिः निर्गन्धेन्धनदाहेऽपि ज्वलितोऽनलो यत्र । आसारो मित्रबलम् ॥ ३३ ॥ शस्ते तस्मिन् स्कन्धावारे । अशस्ते विपर्ययः द्विषो जयः ॥ ३४ ॥ शंसन्ति कथयन्ति । तस्मादेतानि शुभाशुभानि ॥ ३५ ॥ विशुद्धेनान्तरात्मना जयाभिकाङ्क्षिणा । समीहितं विग्रहादिकम् ॥ ३६ ॥ १. 'बलासारः सु' ख. ग. पाठः २. 'शिशिरानिलः' ख. ग. पाठः ३. 'तमाद्यन्मा' ख. पाठ: ४. 'एतस्मिन् विद्विषां भ' क. पाठः, ५. 'द्धासिद्धं नि' क. पाठः, ६. 'हङ्गमाः कारादयः' घ. पाठः, ७. 'बन्धुभिः' घ. पाठः,