पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २५३ सर्गः] षड्विंश प्रकरणम् । परीतराजनक्षत्रः क्रूरैरौत्पातिकैग्रहैः । सूर्यदृष्टकबन्धादिरकस्मान्मूढवाहनः ॥ २७ ॥ अकस्मान्मत्तमातङ्गः संशुष्यद्दानशीकरः । इत्यादिविकृतोपेतः स्कन्धावारो न शस्यते ॥ २८ ॥ प्रहृष्टनरनारीकः प्रशस्तस्वनदुन्दुभिः । गम्भीरहेषितहयः पूरितद्विपबृंहितः ॥ २९ ॥ पुण्याहव्रह्मघोषाढ्यो नृत्तगीतसमाकुलः ।

निरीतिको महोत्साह आकाङ्क्षितजनोदयः ॥ ३० ॥ विरजस्कोऽभिवृष्टश्च प्रादक्षिण्यस्थितग्रहः । दिव्यान्तरिक्षैरुत्पातैः पार्थिवैश्व विवर्जितः ॥ ३१ ॥ क्रूरैर्ग्रहैः राहुभौमशनैश्चरैः । औत्पातिकैः केतुकम्पादिभिः । सूर्यमण्डले हष्टं कबन्धादि यस्मिन् स्कन्धावारे । तस्मात्तु नान्यत्र दृश्यते । मूढो विमनस्कः ॥२७॥ दानं मदः । विकृतम् अशुभम् ॥ २८ ॥ शुभमधिकृत्याह – प्रशस्तस्वनो गम्भीरस्वनः । बृंहितं गर्जितम् ॥ २९ ॥ Shardashah (सम्भाषणम्) ०५:३३, २२ नवेम्बर् २०२२ (UTC)पुण्याह ब्रह्मघोषाढ्य इति । प्रशस्तदिने वेदध्वनिमुखरः । यदि वा पुण्या- हघोषैर्ब्रह्मघोषैश्च सर्वद कलितः । निरीतिको निरुपद्रवः ॥ ३० ॥ अभिवृष्टो जलधरसिक्तः । प्रादक्षिण्यस्थितग्रहः पुरः शुक्राद्यभावात् । उत्पातैरिति । उत्पातास्त्रिविधाः दिव्यान्तरिक्षभौमाः, तैरप्रशस्तैर्विवर्जितः ॥ ३१ ॥ १. 'न्मूढमा' क. पाठः २. 'प्रदुष्य' ख. ग. पाठः ३. 'जि' क पाठः ४. 'कः सदोत्सा' क. पाठ.. ५. 'यो' क. पाठः, ६. 'दाकालक' ग. घ. पाठः ७. 'पुरुषशु' क. ख. पाठः