पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२५२ कामन्दकीय नीतिसारे सप्तदश:

  • २६ निमित्तज्ञानप्रकरणम् *

आक्रान्त इव केनापि रोगानीकैरभिद्रुतः । अकस्माद्भवदुद्वेगो रजोनीहारसंवृतः ॥ २३ ॥ विधूम्रैः परुषैर्वातैरकस्माच्च पतद्ध्वजः । परस्परभवद्रोहो नतथातूर्यनिस्वनः ॥ २४ ॥ उत्प्रेक्षितभयत्रासो निर्घातोल्का (भि?दि) दूषितः । उमत्प्रज्वलच्छस्त्रो विदक्षिणशिवारुतः ॥ २५ ॥ मण्डलैः काकगृध्राणामाकीर्णो रूक्षवाशिभिः । मुहुरत्युग्रतादीप्तः संसिक्तो रक्तवृष्टिभिः ॥ २६ ॥ [ एवं निवेशितस्य स्कन्धावारस्य जयपराजययोः शुभाशुभनिमित्तं जानीयादिति निमित्तज्ञानमुच्यतेऽष्टादशभिः श्लोकैः । तत्राशुभम विकृत्याह आक्रान्त इत्यादि । केनापि भूतविशेषेणावष्टब्ध इव रोगानीकैरभिद्रुतः । अकस्माद् बिना प्रि- यावियोगादिना भवदुद्वेगः ॥ २३ ॥

विधूम्रैः  धूमिकादिभिः स्वरैश्च वातैः संवृत इत्येव । अकस्माद् विना वाShardashah (सम्भाषणम्) ०५:३०, २२ नवेम्बर् २०२२ (UTC)तेन पतध्वजः । परस्परभवद्रोहः अवस्कन्दादिभिः । नतथातूर्यनिस्वनः यथा प्राक् ॥ २४ ॥

भयं मरणहेतुकं, त्रासः शङ्कामात्रम् । निर्घातोल्कादिदूषणं विजिगीषुदेशे तस्य निपातनात् । उद्वमत् स्वकोशान्निष्क्रामत् प्रज्वलत् शस्त्रं यत्र । विदक्षिण- शिवारुतः विदक्षिणः प्रतिकूलः ॥ २५ ॥ अत्युग्रतादीप्तः अतिरूक्षत्वाद राक्षसीनिवास इव । रक्तवृष्टिभिः औत्पाति- कीभिः ॥ २६ ॥ १. 'धूम' क. पाठः. २. 'त्रो' क. घ. पाठः. ३. सीनो वृक्षवासिनाम्' क. पाठः 'भो' क. ग. घ. पाठः. ६. खष्टरादि ग. घ. पाठः '४. 'या' क. ख. ग. घ. पाठः