पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २५१ सर्गः ] पञ्चविंशं प्रकरणम्। निर्वृक्षक्षुपपाषाणस्थाणुवल्मीकनिर्दरे । कारयेत् करणैश्चित्रैः सैन्यव्यायाम भूमिकाः १८ ॥ यस्मिन् देशे यथाकामं सैन्यव्यायामभूमयः । परस्य विपरीताश्च श्रुतो देशः स उत्तमः ॥ १९ ॥ आत्मनश्च परेषां च तुल्यो व्यायामभूमयः । यत्र मध्यम उद्दिष्टो देशः शास्त्रार्थचिन्तकैः ॥ २० ॥ अरातिसैन्यव्यायाम सुपर्याप्त महीतलः ।

आत्मनो विपरीतश्च यः स देशोऽधमः स्मृतः ॥ २१ ॥ नित्यमुत्तममाकाङ्क्षेत् तदभावे तु मध्यमम् । अधमं बन्धनागारं नोपसेवेत सिद्धये ॥ २२ ॥ (इति स्कन्धावारनिवेशनं नाम पञ्चविंशं प्रकरणम् ) निर्वृक्षेति । निर्गता वृक्षादयो यस्मात् प्रदेशादिति विग्रहः । क्षुपो गुल्मः । निर्दरं भूमेर्विदारणम् । व्यायामो युद्धचर्या न तु व्यायाममात्रं करणशब्दस- न्निधानात् ॥ १८ ॥ स्कन्धावारा निवेशार्थं विग्रहार्थं च देशस्योत्तममध्यमाधमतां दर्शयति य- स्मिन्नित्यादिना । यथाकाममिति यथात्मनो हस्त्यादीनां यथेष्टं चेष्टमानानां भूमयः । परस्य विपरीताः अयथाकामम् ॥ १९ ॥ ४ तुल्या व्यायामभूमयः सैन्यस्य ॥ २० ॥ सुपर्याप्तं सुप्रचारम् ॥ २१ ॥ उत्तममाकाङ्क्षेद् निवेशार्थं विग्रहार्थ च । बन्धनागारं तत्र हि चेष्टासरो- धाद् बद्धस्येवावस्थानम् ॥ २२ ॥ (इति स्कन्धावारनिवेशनं नाम पञ्चविंशं प्रकरणम् ) १. 'स्यव्या' ख. ग. पाठः, २. 'स मध्यमः समुद्दि क. पाठः. ३. 'भुवस्तल:' क. पाठ:. ४. 'त्यन्या' क. ख. पाठः, 'ल्या व्यापारभू' ङ. पाठः.