पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [सप्तदशः २९५ कामन्दकीय नीतिसारे तोरणाबद्धमाल्येषु यन्त्रवत्सु पताकिषु । द्वारेषु परमां गुप्तिं कारयेदाप्तकारिभिः ॥ १३ ॥ निर्गच्छेत् प्रविशेच्चैव सर्व एवोपलक्षितः तिष्ठेयुः परदूताश्च राजशासनगोचराः ॥ १४ ॥ वृथाकोलाहलाद्धास्याद् द्यूतात् पानाच्च वारितः । सज्जोपकरणस्तिष्ठेत् सर्वः कार्योन्मुखो जनः ॥ १५ ॥ बहिः खातात् तु सैन्यानां मुक्त्वा सञ्चारमोत्मनः । परसैन्यविघातार्थ सर्वा भूमिं विनाशयेत् ॥ १६ ॥ क्वचित् कण्टकशाखाभिः क्वचिच्छूलैरयोमुखैः । दूषयेत् परितो भूमिं प्रच्छन्नैः प्रदरैरपि ॥ १७ ॥ यन्त्रवत्स्वति चतुर्द्वारेषु शरपाषाणप्रमोक्षार्थं सर्वतोभद्रादीनि यन्त्राण्युपस्थापयेत् । गुप्तिं रक्षाम् । आप्तकारिभिः विजिगीषोरिष्टकारिभिः ॥ १३ ॥ राजशासनगोचरा इति । परकीयेभ्यः प्रवेशो न देय इति राजशासनम् । यदा चायं प्रवेशमादिशति, तदा प्रविशेयुः, अन्यदा तु तच्छासनगोचरा एव तिष्ठेयुः ॥ १४ ॥ वृथाकोलाहलात् क्रीडोत्पत्तिकृताद् हास्याद् द्यूतात् पानाच्च कलहहेतोः - सज्जोपकरणैः तिष्ठेत् । कार्योन्मुखः यस्य च यस्मिन्नियोगस्तदवहितः ॥ १५ ॥ मुक्त्वा सञ्चारमिति । चतुद्वारेषु स्वसैन्यानां सञ्चारमार्गमात्रं त्यक्त्वाशेषां मूर्मि नाशयेत् ॥ १६ ॥ कथमित्याह - क्वचिदित्यादिना । अयोमुखैः शूलैः । प्रदरैः श्वम्रैस्तृणादिप्रच्छन्नैः ॥ १७ ॥ १. ‘र्वका’ क. ख. पाठः. २. 'मायतम्' क. पाठः ३. 'नैश्व द' क. पाठः ४. 'णः का' ग. घ. ड. पाठः ५. 'र्गमायतं त्य' ग. घ. पाठः, 'र्ग त्य' ङ. पाठः..