पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २४९

सर्ग: ] पञ्चविंशं प्रकरणम् ! हस्तिनो लब्धनामानस्तुरङ्गाश्च मनोजवाः । गृहोपकण्ठे नृपतेर्वसेयुः स्वाप्तरक्षिताः ॥ ८ ॥ यामवृत्त्या सुसन्नद्धं रात्रिन्दिवमुदायुधम् । अन्तर्वेशिकसैन्यं च तिष्ठेद् राजाभिगुप्तये ॥ ९ ॥ युद्धयोग्यो महादन्ती सन्नद्धः साध्यधिष्ठितः ।

तिष्ठेन्नरपतिद्वारे वेगवांश्च तुरङ्गमः ॥ १० ॥ सैन्यैकदेशः सन्नद्धः सेनापतिपुरस्सरः । प्रयत्नवान् परिपतेन्मण्डलेन बहिर्निशि ॥ ११ ॥ परसैन्यप्रचाराश्च सत्त्वाढ्याः शीघ्रगामिनः । वाताश्विका विजानीयुर्द्धरसीमान्तचारिणः ॥ १२ ॥ रान् । पर्याप्तवेतनान् लोभाभावात् परस्याभेद्यान् । मण्डलेन निवेशयेत् स्कन्धावारं परिवृत्येत्यर्थः ॥ ७ ॥ लब्धनामानः प्रभाविनः ॥ ८ ॥ यामवृत्त्या पहरपर्यायेण । उदायुधं सन्नद्धमपि स्वकोशादुत्खातायुधम् । अन्तर्वेशिकसैन्यम् अन्तःपुररक्षानियुक्तै सैन्यम् ॥ ९ ॥ साध्वधिष्ठित आप्ताधिष्ठितः । तिष्ठेन्नरपतिद्वारे प्रहरपर्यायेण तदात्वे हि कार्योत्पत्तौ तमारुह्य कार्यकरणसमर्थो भवति ॥ १० ॥ सैन्यैकदेशश्च तृतीयश्चतुर्थो वा भागः । परिपतेत् स्कन्धावाराद् बहिः परिभ्रमेत् परावस्कन्दप्रतिविधानार्थम् ॥ ११ ॥ परसैन्यप्रचारांश्च विजानीयुः तदनुरूपप्रतिविधानार्थम् । सत्त्वाढ्याः सत्त्वाधिकाः । वाताश्विकाः वाताश्वचारिणः । शीघ्रपातिनोऽपि केचिद् दूरं सीमान्तं परिश्रमितुमशक्ता इति पृथगुपादानम् ॥ १२ ॥ १. 'तेर्द्वा' मूलकोशेषु पाठः, २. 'रि' क. पाठः. 'लं तद् व' ख. ग. पाठः, ५. 'युः पुर' ख. पाठः. यत् सै' ग. घ. ङ. पाठः. ४. ३. 'चरेन्म' क. ग. पाठः. ६. 'वासिनः' ग. पाठः. ७. 'तं