पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [सप्तदशः

२४८ कामन्दकीय नीतिसारे . विभक्तैश्च विविक्तैश्व पावैरन्वितमायतैः । गुप्तं कक्षपुटाकारं महामार्गसमावृतम् ॥ ४ ॥ तस्य मध्ये मनोह्लादि महेन्मौलबलावृतम् । अन्तः कोशगृहोपेतं कारयेद् राजमन्दिरम् ॥ ५ ॥ मौलं भृतं श्रेणि सुहृद् द्विषदाटविकं बलम् । राजहर्म्य समावृत्य क्रमेण विनिवेशयेत् ॥ ६ ॥ अन्तैः स्ववर्गिणः क्रूरानलुब्धान् दृष्टकर्मणः । पर्याप्तवेतनानाप्तान् मण्डलेन निवेशयेत् ॥ ७ ॥ पार्श्वैरिति । प्राकारस्याभ्यन्तरे भागे स्कन्धावारस्य चत्वारि पार्श्वानि, यैरहोरात्रं स्कन्धावारस्य जागरकाः परिभ्रमन्ति तैर्विभक्तैर्दण्डमात्रविस्तारैः । विविक्तैः शून्यैः । आयतैः प्रगुणैरन्वितमगारमिति संबन्धः । गुप्तं समन्तान्निश्छिद्रत्वात् । कक्षपुटाकारं नवसंस्थानम् । तत्र वास्तुपुरुषहृदयपरिहारार्थं तुल्यप्रमाणान् नवकोष्ठा प्रकल्पयेदित्यर्थः । महामार्गसमावृतम् । त्रयः प्राचीना राजमार्गाः त्रय उदीचीना इति, तैर्युक्तम् ॥ ४ ॥ तस्येति अगारस्य । मध्य इति मध्यमो यो नवमभागः, तं पुनर्नवधा विभज्य मध्यं भागं त्यक्त्वा तस्योत्तरे नवभागे राजमन्दिरं कारयेत् । तथाचो-क्तं “मध्यमस्योत्तरे नवभागे राजवास्तुनिवेशं कारयेदि” (कौटि. अर्थ. १०. १. १४७)ति । महद् मन्दिरमिति सम्बन्धः । अन्तः कोशगृहोपेतं राजमन्दिरस्य मध्ये कोशमन्दिरमपरं कारयेत् ॥ ५ ॥ क्रमेणेति । राजमन्दिरं समन्तादावृत्य मौलं बलं क्रमागतं विनिवेशयेत् । ततो भृत्यबलं वेतनप्रतिबद्धम् । ततोऽपि श्रेणिवलं जानपदम् । अत्र श्रेणिशब्दः स्व- लिङ्गे नैव स्थितः । तस्मादपि सुहृद्भूतं बलम् । ततोऽपि द्विषद्भुतम् । ततश्चाटविकमिति ॥ ६ ॥

  • अन्तः स्ववर्गसहितान् स्कन्धावारस्य । दृष्टकर्मणः साक्षात्कृत समस्तव्यापा-

१. 'श्चाविभक्तै' क. ग. पाठः ४. 'अविभक्तैरशू' क. ख. पाठः ७. 'त्प्रभिन्नम् । त' ङ. पाठः . २. 'हामी' ख. ग. पाठः ३. 'न्तःस्थंव' मूलकोशेषु पाठः . ५. 'न् क' ग घ ङ. पाठः ६. 'त्प्रभिन्नं व' ङ. पाठः.

  • 'अन्तः स्ववर्गिण' इति मूलपदस्य किमिदं व्याख्यापदं स्याद्, उताहो 'अन्तः स्ववर्गसहि तान्' इत्येव वा मूलपाठो व्याख्यातृदृष्टः स्याद् इति संशयस्थानमिदम् ।