पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ सप्तदशः सर्गः ।

  • २५ स्कन्धावारनिवेशनप्रकरणम् *

यात्वा वैरिपुराभ्याशं भूभागे साधुसम्मते । स्कन्धावारनिवेशज्ञः स्कन्धावारं निवेशयेत् ॥ १ ॥ चतुरश्रं चतुर्द्वारं नातिविस्तार सङ्कटम् । साट्टप्रतोलीप्राकारं महाखातसमावृतम् ॥ २ ॥ शृङ्गाटैकार्धचन्द्रं वा मण्डलं दीर्घमेव वा । भूमिप्रदेशसामर्थ्यादगारमुपकल्पयेत् ॥ ३ ॥ अभियानोत्तरकालभावित्वाद्विग्रहस्य तदनन्तरं विग्रहशेषभूतो विधि: सर्गचतुष्टयेनोच्यते । तत्रास्मिन् सर्गे प्रकरणद्वयं स्कन्धावारनिवेशो निमित्तज्ञानं च । तत्र यात्वा शत्रुदेशमनिवेशितस्कन्धावारस्य विग्रहासम्भवात् स्कन्धावारनिवेश उच्यते द्वाविंशत्या श्लेोकैः, यदाह - यात्वेत्यादि । वैरिपुराभ्याशं यत्र शत्रुर्यातव्यः स्वकटकेनावस्थितस्तस्याभ्याम् । भूभागे देशे । साधुसम्मते वास्तुकर्मप्रशस्ते ॥१॥ चतुरश्रमगारमिति सम्बन्धः । चतुद्वीरं चतसृषु दिक्षु । नातिविस्तारसङ्कटं, तत्र ह्यन्योन्यरक्षणं परस्परपीडनं च सैन्यं निवेश्यते । सादृप्रतोलीप्राकारमिति । समन्तान्महाप्राकारमन्तरोन्तरा चाट्टालकानि । द्वयोर्द्वयोश्चाट्टालकयोर्मध्ये प्रतोली- मुपस्थापयेत् । महाखातसमावृतं प्राकाराद्बहिः ॥ २ ॥ भूमिप्रदेशसामर्थ्यादिति । भूमिप्रदेश संस्थानवशाच्चतुरश्रशृङ्गाटकादिसंस्थानभेदं स्कन्धावारस्यागारं स्थानं कल्पयेत् ॥ ३ ॥ १. 'गत्वा' क. पाठः. २. 'शभू' घ ङ. पाठः. ३. ‘टमर्ध' ख. ग. पाठः ४. 'गत्वे' ग. घ. पाठः. ५. 'रं दुर्गेश' ग. घ. पाठः. ६. 'शभू' कोशेषु पाठः. ७. 'न्यरक्षं प' ग. घ. पाठः, 'न्यार' ङ. पाठः. ८. 'र' ग. घ. ङ. पाठ:. ९. 'रा चा' क. पाठः. १०. 'दि' ख. ग. पाठः.