पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४६ कामन्दकीय नीतिसारे [ षोडशः सर्गः ] कुसुमित सहकार श्रीज्वलत्कानने वा नरपतिररिभूमिं साधु गच्छेज्जयाय ॥ ६० ॥ इति नरपतिराहितादर: परमभियोक्तमनाः समुत्पतेत् । इति विधिविषयोपसेवना- न्नियतमरातिरुपैति गोचरम् ॥ ६१ ॥ (इति यात्राभियोक्तप्रदर्शनं नाम चतुर्विंशं प्रकरणम् ) इति कामन्दकीये नीतिसारे यात्राभियोक्तृप्रदर्शनो नाम षोडशः सर्गः । यात्राः दीर्घकाला ह्रस्वकाला मध्यकाला च । ताश्च यथाक्रममाह - भूरिसम्पन्नसस्ये काले मार्गशीर्षे । विगतसलिलपङ्के ज्येष्ठामूलीये । कुसुमितानां सहकाराणां श्रिया ज्वलत् काननं यस्मिंश्चैत्रमासे । उद्भूतवृत्तिः त्रिष्वपि कालेष्वभिव्यक्तशक्तिः ॥ ६० ॥ 1 अभियोक्तारमधिकृत्याह – इतीति । समुत्पतेद् उत्तिष्ठेत् । विधिविषयोपसेवनादिति । यात्राया अभियोक्तश्च यो विधिरुक्तः, स एव विधिविषयो विजिगीषुणा सेव्य इति कृत्वा । गोचरं सिद्धेरिति शेषः ॥ ६१ ॥ (इति यात्राभियोक्तप्रदर्शनं नाम चतुर्विंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकाय०५:००, २२ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्)। जयमङ्गलायां यात्राभियोक्तृप्रदर्शनो नाम षोडशः सर्गः ।