पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २४५सर्गः ] चतुर्विंशं प्रकरणम् । दोष्णां बलान्मन्त्रबलं गरीयः शक्रोऽसुरान् मन्त्रबलाद् विजिग्ये ॥ ५७ ॥ मनीषया निर्मलया विलोकितं फलाय कमद्यममास्थितः परम् । अकालहीनं नयवित् समाचरेत् फलं ह्यकाले नियतं व्युदस्यति ॥ ५८ ॥ प्रभावितानां श्रुतशौर्यशालिनां यथावदालोचितमार्गचारिणाम् । चिराय दैवी द्युतिरुन्नतात्मनां भुजङ्गदीर्घेषु भुजेषु लम्बते ॥ ५९ ॥ समुदितनरसम्पद् भूरिसम्पन्नसस्ये विगतसलिलपङ्के काल उद्भूतवृत्तिः ।

त्यादि । अश्मिभियोक्तुमिच्छता । निपुणं सम्यक् । दोष्णां बलाद् बाहुबलात् । अरिमभियुञ्जानेन मन्त्रेण योद्धव्यमिति ( अ ) भिप्रायः । शक्रोऽसुरान् बलजम्भवृत्रप्र- भृतीन् बाहुशालिनः ॥ ५७ ॥ मनीषया बुद्ध्या निरूपितं कर्म पराभियोगं फलाय समाचरेदिति सम्बन्धः । अकालहीनं परस्यच्छिद्रकालमासाद्येत्यर्थः । अकाले नियतं नियोक्तुः फलं शत्रु- सिद्धमन्ते (दिव्युप्स्यति : व्युदस्यति ॥ ५८ ॥ + प्रभावितानाम् ॥ १९ ॥ (समुदितेति समुदिता नरसम्पद् य (स्य नर) पतेरिति सम्बन्धः । तिस्रो १. 'ष्णोर्व' मूलकोशेषु पाठ :. २. 'न' ख. ग. पाठः. ३. 'बलालो' ग. पाठः. ४. देवी भृशमुन्न' ग. पाठः.

  • निरूपितमिति व्याख्यातृपाठः स्यात् । + अस्य पदस्य व्याख्यानं लेखकेन त्यक्तमिति भाति ।